SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ स्थलचरान्योक्तयः, जलचरान्योक्तयः कर्दमदुर्गमे जलभृते गर्ताशतैराकुले खिन्ने शोकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्दे नैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनीमीदृक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ १४५ ॥ दन्ताः सप्त चलं विषाणयुगलं पुच्छाश्ञ्चलः कर्बुरः कुक्षिश्चन्द्रकितो वपुः कुसुमितं संघूर्णितं चेष्टितम् । अस्मिन्दुष्टवृषे मृषामितगुणग्रामानभिज्ञात्मनो ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ १४६ ॥ केषांचिद्धवलाश्चिरं निवसिताश्चित्ते परेषां पुनर्नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचकः । ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनुचैःश्रवाः स्वान्ते मे परतत्रतुन्दिलतनुर्जा गर्त्ययं कर्बुरः ॥ १४७ ॥ न ध्वानं कुरुषे न यासि विकटं नोच्चैर्वहस्याननं दर्पान्नोल्लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे । किंतु त्वं वसुधातलैकधवलः स्कन्धाधिरूढे `भरे तीराण्युच्चतटी विटङ्कविषमाण्युल्लङ्घयन् क्षीयसे ॥ १४८ ॥ यस्यादौ व्रजमण्डनस्य वहतो गुर्वीं धुरं धैर्यतो धौरेयैः प्रगुणीकृतो न युगपत्स्कन्धः समस्तैरपि । तस्यैवं श्लथकम्बलस्य धवलस्योत्थापने सांप्रतं द्वैङ्गेऽत्रैव जरावसादिततनोर्गोः पुण्यमुद्धोष्यते ॥ १४९ ॥ कपिः हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ १५० ॥ कपिरपि च कापिशायनमदमत्तो वृश्चिकेन संदष्टः । अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ॥ १५१ ॥ वृक्षान्दोलनमद्य ते क्व नु गतं नर्म स्वयूथस्य वा यूकान्वेषणरोषसौख्यबहुलाश्चेष्टा मुखोत्थाः क्वताः । क्कारण्ये फलपूर्णगल्लकुहरस्यान्येषु ता भीषिका भीतः संप्रतिं कौशिकाद्गलवलद्यालः कपे नृत्यसि ॥ १५२ ॥ वराहः सर्वलोकपरितोषकारिणि स्वर्धुनीविमलवारिणि स्थिते । तिगन्धवति पल्वलोद के सूकरः सुखमतीव मन्यते ॥ १५३॥ आकर्ण्य गर्जितरवं घनगर्जतुल्यं सिंहस्य यान्ति वनमन्यदिभा भयातीः । तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः ॥ १५४ ॥ आदिवराहः निष्कन्दामरविन्दिनीं स्थपुटितोद्देशां कँसेरुस्थलीं जंम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां प्रलयार्णवोर्मिसलिलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पोत्रिणी पुत्रिणी ॥ १५५ ॥ श्वा पिब पयः प्रसर क्षितिपान्तिकं कलय कांचन काञ्चनशृङ्खलाम् । इदमवद्यतमं हि यदीहसे भषक संप्रति केसरिणस्तुलाम् ॥ १५६ ॥ २३५ वृश्चिकः विषभारसहस्रेण गर्ने नायाति वासुकिः । वृश्चिको बिन्दुमात्रेणाप्यूर्ध्व वहति कण्टकम् ॥ १५७ ॥ भेकः कर्दमपानीयं भेको रटरटायते ॥ १५८ ॥ गङ्गादीनां सकलदिव्यं चूतरसं पीत्वा गर्व नो याति कोकिलः । पीत्वा सरितां प्राप्य तोयं समुद्रः किंचिद्गर्वी न भवति वपुर्दिव्यरत्नाकरोsपि । एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति बहुधा स्पर्धया विश्वमुचैः ॥ १५९ ॥ जम्बुकः उदस्योच्चैः पुच्छं शिरसि निहितं जीर्णजटिलं यदृच्छाव्यापन्नद्विपपिशितलेशाः कवलिताः । गुहागर्ते शून्ये सुचिरमुषितं जम्बुक सखे किमेतस्मिन्कुर्मो यदसि न गतः सिंहसमताम् ॥ १६० ॥ सर्पः 1 तावद्गर्जन्ति मण्डूकाः कूपमाश्रित्य निर्भयाः । यावत्करिकराकारः कृष्णसर्पो न विद्यते ॥ १६९॥ यस्मै ददाति विवरं भूमिः फूत्कारमात्रभीतेव । आशीविषः स दैवा डम्बरण्डे स्थितिं सहते ॥१६२॥ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्रचर्येदृशी । अन्यत्रानृजुवर्त्मता द्विरर्संना वक्रे विषं वीक्षणं सर्वामङ्गलसूचकं कथय भो भोगिन्सखे किं न्विदम् ॥ १६३ ॥ शेषः अनेके फणिनः सन्ति भेकभक्षणतत्पराः । एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १६४ ॥ युक्तोऽसि भुवनभारे मा वक्रां वितनु कन्धरां शेष । त्वय्येकस्मिन्दुःखिनि सुखितानि भवन्ति भुवनानि ॥ १६५ ॥ जलचरान्योक्तयः मत्स्यः क्षारं वारि न चिन्तितं न गणिताः क्रूराश्च नक्रादयश्चश्चद्वीचि कदम्बडम्बर मिलत्रासोऽपि दूरीकृतः । मध्येऽम्भोनिधि मत्स्यरङ्क भवता झम्पः कृतो लीलया संपत्तिर्मकरार्जनं विपदिह प्राणप्रयाणावधिः ॥ १ ॥ रोहितः अगाधजलसंचारी न गर्ने याति रोहितः । अङ्गुष्ठोदकमात्रेण शफरी फर्फरायते ॥ २ ॥ राघवः यस्मिन्वेल्लति सर्वतः परिचलत्कल्लोल कोलाहलैर्मन्थाद्रिभ्रमण भ्रमं हृदि हरिद्दन्तावलाः पेदिरे । सोऽयं तुङ्गतिमिंगिलाङ्गकवलीकारक्रियाकोविदः कोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ३ ॥ १ सर्पः. २ गारुडिककरण्डे ३ आत्मभोगककस्य ४ वर्तनम् . १ श्वभ्रम्. २ शकटस्वामिनि ३ नगरे ४ दुर्गन्धवति. ५ अल्पज लाशयोदके. ६ विषमोन्नतदेशाम् ७ कन्दविशेषवतीम् ८ पङ्कसंमिश्रम् | ५ वक्रमार्गता. ६ द्विरावृत्ता रसना - रसनाद्वयमित्यर्थः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy