________________
२२४
कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गौ नासङ्गं रचयति न चूतेऽपि रमते स्मरँलक्ष्मीलीलाकमलमधुपानं मधुकरः ॥ ९४ ॥ श्रियो वासाम्भोजे त्रिदिवसरिदम्भोजकुहरे हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ । स दैवादुन्मीलत्तपनकरतापव्यतिकरव्यथाकम्पः संप्रत्यतरुमरुभूमौ विचरति ॥ ९५ ॥ लता - स्तास्तास्तादृङ्मधुरसवतीः पङ्कजवनीः समालिङ्गश्रुम्बन्नयमगमयद्भूरिसमयम् । इदानीं चेन्नीचे विचरति रुचेरेष लकुचे कुष्ठेयं धातुर्भवति नहि वाच्यो मधुकरः ॥ ९६ ॥ मधूके माध्वीकं पिबसि शतपत्रेऽभिरमसे मधूलीभिश्चान्तधुप सहकारेऽपि रमसे । वसन्ते वासन्तीमधु मधुरमनासि बहुशो दुरावेशोऽयं ते तदपि कुटजे यद्विचरसि ॥ ९७ ॥ भ्रमन्स्वैरं भ्रातर्भ्रमर नवयूथेषु बहुशो मधूलीमन्विष्यन्कुमुदवनवीथीषु विचर । वसन्तप्रारम्भस्फुरितमधुसंभारसुभगो न ते विस्मर्तव्यः क्वचन सहकारव्यतिकरः ॥ ९८॥ अये मधुप मा कृथा बत वृथा मनोदीनतां तुषारसमये लताशतनिषेवणव्याकुलः । इयं पुरत एव ते सरसपुष्पमासोदये रसालनबमञ्जरी मधुझरी जरीजृम्भते ॥ ९९ ॥ नो मल्लीमयमीर्हते न भजते मत्तेभकुम्भस्थलीं वासन्सीं सहते न चन्दनवनीमालम्बते न क्वचित् । जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां ध्यायन्निर्वृतिमेति षट्पदयुवा योगीव वीतभ्रमः ॥ १०० ॥ किं क्वापि प्रलयानलैर्विटपिनो निर्दय भस्मीकृताः किंखिदेवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् । किंवा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरैर्येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ १०१ ॥ यस्याः संगमवाञ्छया न गणिता वाप्यो विनि - द्रोत्पला यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृ - तिम् । भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते धैर्य नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ १०२ ॥ दुग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः पृष्टास्ते Sपि विनिद्रपुष्पपटलीपीतातपाः पादपाः । भ्रातर्भुङ्ग दवा मिना वनमिदं वल्मीकशेषं कृतं किं त्वं संप्रति काननान्तरपरिस्पन्दाय मन्दायसे ॥ १०३ ॥ दूरादुज्झति चम्पकं न 'व भजत्यम्भोजराजीरजो नो जिघ्रत्यपि पाटलापरिमलं धत्ते न चूते रतिम् । मन्दारे यदनादरो विचैकिलोपान्ते न संतृप्यते तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥ १०४ ॥ येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
सुभाषितरत्नभाण्डागारम्
[ ५ प्रकरणम्
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥ १०५ ॥ भ्रातभ्रम्य लवङ्गवलीषु पिब स्वैरं नवाम्भोरुहं माध्वीमाधवि - कामधूनि मधुराण्याकण्ठमास्वादय । कस्मादाप केतकमिदं यस्मिन्नुदीर्ण रजो दृष्टिं लुम्पति सूचयः प्रविचिताः कृन्तन्ति मर्माण्यपि ॥ १०६ ॥ आस्वाद्या षट्पद मदं मा गाः कषायाङ्कुरैर्माकन्दस्य पिकान्प्रतारितवतो मूर्धानमध्यासितः । प्रत्यासन्नत मे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं सागुण्यमेतन्न ते ॥ १०७ ॥ नीतं जन्म नवीननीरजवने पीतं मधु स्वेच्छया मालत्याः कुसुमेषु येन सततं केली कृता हेलया । तेनेयं मधुगन्धलुब्धमनसा गुञ्जालता सेव्यते हा धिग्दैवकृतं स एव मधुपः कां कां दशां नागतः ॥ १०८॥ प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरीपुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान् । तस्मिन्नद्य रसालविनयं नीचत्वदन्योः ॥ १०९ ॥ सोऽपूर्वो रसनाशाखिनि दशां दैवात्कृशामश्चति त्वं चेन्मुश्चसि चञ्चरीक विपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मैदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । सर्वे विस्मृतवानसि भ्रमर हे यैद्वारणोऽद्याप्यसार्वन्तः शून्यकँरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ ११० ॥ केतक्यः कटुकण्टकाः कुमुदिनी दोषोदयान्मोदते जायन्ते विकलाः कलावति पुनः पङ्केरुहां पङ्क्तयः । अन्यानि प्रसवानि षट्पदपदन्यासैरवाश्चि क्वचिद्भृङ्गो भ्राम्यति कल्पवृक्ष विपदामन्तर्भवन्तं विना ॥ १११ ॥ यद्यप्याम्रतरोरमुष्य वनिताकर्णावतंसोचितामाजिघ्रन्नवमञ्जरीं मधुप हे जातोऽसि पूर्णोत्सवः । विस्मर्तु भवतस्तथाप्यनुचितं तद्वन्द्यमिन्दीवरं यस्यास्वाद्य मधूलि चानतशिरो मञ्जु त्वयोजितम् ॥ ११२ ॥ माकन्दे मधुपानमम्बु बकुले क्रीडा कदम्बद्रुमे दोलाखेलन कौतुकं कुवलये कः को न वा विभ्रमः । येनाकारि मधुत्रतेन सहसा सोऽयं मधूके मधौ माध्वीकं परिपीय पीवरतनुर्जीवत्यहो जीवनम् ॥११३॥ पीतं पङ्कजकानने मधु मया नीपेऽपनीतं वयो बन्धूके वरबन्धुता विरचिता रक्तं रसालदुमे । किं चाकारि कुमुद्वतीपरिकरे क्रीडाकला कौशलं कस्तद्वेत्तु विधीयतेऽद्य बदरी - वृन्दस्य यद्वन्दनम् ॥ ११४ ॥
१ अग्निशापात्करिणां जिह्वापरिवृत्तिः; पक्षे, - पूर्वविपरीताभिधानम्. २ कर्णचापलं प्रसिद्धम्; पक्षे, पिशुनप्रतार्थत्वं च ३ मदः प्रसिद्धः ; पक्षे, गर्वः ४ स्वपरयोर्दिङ्मार्गः; पक्षे, आप्तानाप्तविभागः ५ गजः ;
१ इच्छां करोति. २ माधवीलताम् ३ गतभ्रमः ४ कृतान्तः कालः स एव केसरी सिंहः ५ विच किलः पुष्पमेदः ६ शरत्संबन्धिनी । पक्षे, - वारकः ६ सरन्द्रः; पक्षे, धनरहितः ७ शुण्डाः; पक्षे, - हस्तः