________________
सुभाषितरत्नभाण्डागारम्
[ ५ प्रकरणम्
भवन्ति यत्रापः ॥ १७ ॥ धीरेध्वनिभिरलं ते नीरद मे मासिको गर्भः । उन्मदवारणबुद्ध्या मध्येजठरं समुच्छ लति ॥ १८॥ जलदः समुद्रसेवामाचरति समग्रभुवनभर - णाय । कुरुते तामपि हेतमतिरौँत्मंभरिरनिशमौर्वाग्निः ॥१९॥ सर्वे वनं तृणाल्या पिहितं पीताः सितांशुरविताराः । प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ २० ॥ प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरं भ्रमसि । चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ २१ ॥ यद्यपि सन्ति बहूनि सरांसि स्वादुसुशीतलसुरभिपयांसि । चातकपोतस्तदपि च तानि त्यक्त्वा याचति जलदजलानि ॥ २२ ॥ एतदत्र पथिकैकजीवितं पश्य शुध्यतितरां महत्सरः । धिङ् मुधाम्बुधर रुद्धसद्गतिर्वर्धिता किमिह तेऽद्रिवाहि - नी ॥ २३ ॥ मुञ्च मुञ्च सलिलं दयानिधे नास्ति नास्ति समयो विलम्बने । अद्य चातककुले मृते पुनर्वारि वारिधर किं करिष्यसि ॥ २४ ॥ चातकस्य खलु चचुसंपुटे नो पतन्ति किल वारिबिन्दवः । सागरीकृतमहीतलस्य किं दोष एष जलदस्य दीयते ॥ २५ ॥ ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः । क्षेत्रसीनि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥ २६ ॥ आपो विमुक्ताः क्वचिदाप एव क्वचिन्न किंचिद्गरलं क्वचिच्च । यस्मिन्विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन्विमुखः कुतस्त्वम् ॥ २७ ॥ पानीयमानीय परिश्रमेण पाथोद पाथोनिधिमध्यतस्त्वम् । कल्पद्रुमे सीदति साभिलाषे महोषरे मुञ्चसि किंनिमित्तम् ॥ २८ ॥ पपात पाथःकणिका न भूमाववाप शान्तिं ककुभां न तापः । दृष्ट्वैव जीवातुरयं तडि - त्वान्कृषीवलानां मुदमाततान ॥ २९ ॥ प्रथितोऽसि यत - स्ततः पृथिव्यामपि जीमूत जनस्य जीवनेन । विषयानपि गच्छतः किमेतान्ध्वनिभिर्भीषयसीह राजहंसान् ॥ ३० ॥ गर्जितबधिरीकृतककुभा किमपि कृतं न घनेन । कियती चातकचक्षुपुटी सापि भृता न जलेन ॥ ३१ ॥ गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् । दैवा - दिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥ ३२ ॥ वितर वारिद वारि वातुरे चिरपिपासितचातकपोतके । प्रचलिते मेरुंति क्षणमन्यथा क्व च भवान्क पयः क्व च चातकः ॥ ३३ ॥ किसलयानि कुतः कुसुमानि वा क्व च फलानि तथा नववीरुधाम् । अयमकारणकारुणिको न
परादिषु कापि । तत्किं तत्र न मुञ्चसि मुक्ता भुक्ता चेद्वितरतीह पयांसि पयोधरः ॥ ३४ ॥ पयोद हे वारि ददासि वा न वा त्वदेकचित्तः पुनरेष याचकः । वरं महत्या म्रियते पिपासया तथापि नान्यस्य करोत्युपासनाम् ॥ ३५ ॥ दीनानामिह परिहाय शुष्कसस्यान्यौदार्य प्रकटयतो महीधरेषु । औन्नत्यं परममवाप्य दुर्मदस्य ज्ञातोऽयं जलधर तावको विवेकः ॥ ३६ ॥ अम्यो चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः । शाखोटकस्य पुनरस्य महाशयोऽयमम्भोद एव शरणं यदि निर्गुणस्य ॥ ३७ ॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं दुर्दाववह्निविधुराणि च काननानि । नानानदीनदशता च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमा श्रीः ॥ ३८ ॥ एतेषु हा तरुणमारुतधूयमानदावानलैः कवलितेषु महीरुहेषु । अम्भो न चेज्जलद मुञ्चसि मा विमुञ्च वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ ३९ ॥ शोषं गते सरसि शैवलमञ्जरीणामन्तस्तिमिर्लुठति तापविशीर्णदेहः । अत्रान्तरे यदि न वारिद वारिपूरैराप्लावयेस्तदनु किं मृतमण्डनेन ॥ ४० ॥ शृण्वन्पुरः पुरुषगर्जितमस्य हन्त रे पान्थ विह्वलमना न मनागपि स्याः । विश्वार्तिवारणसमर्पितजीवनोऽयं नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ४१ ॥ यत्तादृशेषु सरलेषु न पक्षपातो जातो बत स्फुटमसौ कुटजेषु रागः । विश्वैकजीवनपटोरपि वारिवाह दुर्वारवायुवशगस्य न तद्विचित्रम् ॥ ४२ ॥ यत्पल्लवः समभवत्कुसुमं यदासीत्तत्सर्वमस्य भवतः पयसः प्रसादः । यद्भूरुहे फलविधौ न ददासि वारि प्राचीनमम्बुद यशो मलिनीकरोषि ॥ ४३ ॥ नैवालवालवलयं भरितं द्रुमाणां नाद्रकृतापि बत चातकपोतचचुः । दावानला कुलतरुः शमितो न शीघ्रं भाराय वारिधर वारिपदं तवाभूत् ॥ ४४ ॥ के वा न सन्ति भुवि वारिरुहावतंसा हंसावलीवलयिनो जलसंनिवेशाः । किं चातकः फलमपेक्ष्य स वज्रपातां पौरंदरीं कलयते नववारिधाराम् ॥ ४५ ॥ वातैर्विधूनय विभीषय भीमनादैः संचूर्णयत्वमथवा करकाभिघातैः । त्वद्वारि बिन्दुपरिपालितजीवितस्य नान्या गतिर्भवति वारिद चातकस्य ॥ ४६ ॥ व्याजस्तुति - स्तव पयोद मयोदितेयं यज्जीवनाय जगतस्तव जीवनानि । स्तोत्रं तु ते महदिदं घन धर्मराजसाहाय्यमर्जयसि यत्पथिकान्निहत्य ॥ ४७ ॥ संपादिताः सपदि दर्दुरदीर्घनादा यत्कोकिलाकलरुतानि निराकृतानि । निष्पीतमम्बु लवणं न तु देवनद्याः पर्जन्य तेन भवता विहितो विवेकः ॥ ४८ ॥ यस्योदये गुरुमनोरथमन्थरेण संचिन्तितं किमपि चेतसि
१ मत्स्यविशेषः २ शोभया.
२१२
१ गम्भीरशब्दैः २ मत्तहस्तिबुद्ध्या ३ उड्डयनं करोति. ४ समुद्रसेवाम् . ५ मन्दमतिः. ६ स्वोदरपूरकः ७ अहोरात्रम् . ८ वाडवाग्भिः. ९ दावानलपीडिते. १० वायौ.