SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ बहिरालापाः कीदृशं हृदयहारि कूजितं कः सखा यशसि भूपतेर्मतः । कस्तवास्ति विपिने भयाकुलः कीदृशश्च न भवेन्निशाकरः ॥ ५६ ॥ कीदृशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः । प्रेतराक्षस - पिशाचसेविता कीदृशी च पितृकाननस्थली ॥ ५७ ॥ केसर - दुमतलेषु संस्थितः कीदृशो भवति मत्तकुञ्जरः । तत्त्वतः शिवमपेक्ष्य लक्षणैरर्जुनः समिति कीदृशो भवेत् ॥ ५८ ॥ निर्जितसकलारातिः पृच्छति को नैको मृत्योर्भयमृच्छति । मेघा - त्ययकृतरुचिराशायाः किं तिमिरक्षयकारि निशायाः ॥ ५९ ॥ विहगपतिः कं हतवानहितं कीदृग्भवति पुरं जनमहितम् । किं कठिनं विदितं वद धिमन्यादः पतिरपि कीदृग्भयकृत् ॥ ६० ॥ अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः । विरहि - यपि जानकी वने निवसन्ती मुदमादधौ कुतः ॥ ६१ ॥ कुसुमं पतदेत्य नाकतो वद कस्मै स्पृहयन्ति भोगिनः । अधिगम्य रतं वराङ्गना क्व नु यत्नं कुरुते सुशिक्षिता ॥ ६२ ॥ कवयो वद कुत्र कीदृशाः कठिणं किं विदितं समन्ततः । अधुना तव वैरियोषितां हृदि तापः प्रबलो विहाय काः ॥ ६३ ॥ वसति कुत्र सरोरुह संततिर्दिनकृतो ननु के तिमिरच्छिदः । पवनभक्षसपत्नरणोत्सुकं पुरुषमाह्वय को जगति प्रियः ॥ ६४॥ न भवति मलयस्य कीदृशी भूः क इह कुचं न बिभर्ति कं गता श्रीः । भवदरिनिवहेषु कास्ति नित्यं बलमथनेन विपद्व्यधायि केषाम् ॥ ६५ ॥ समयमिह (५६) ‘कलंकविरहितः’. कलं मधुरः शब्दः कविः काव्यादिकृत् अहितः शत्रुः. कलङ्केन मृगरूपाभिज्ञानेन विरहितः न स्यात् इति भावार्थ:. (५७) 'नरकपालरचिता' नरकाणां पालाः नारकजीवरक्षा यमभटास्तै रचिता'. उपस्कृता. नराणां कपालानि कर्पराणि तैः कृत्वा रचिता. श्मशानभूमिस्तु मनुष्याणां मुण्डैः सहिता भवति (५८) 'दानव कुलभ्रमरहितः दानेन मदेन बकुलानां वृक्षाणां भ्रमरेभ्यः सकाशात् हितः हितकृतदित्यर्थः दानवानां दैत्यानां कुले यो भ्रमो दानवा अमी युध्यन्तीति मिथ्याज्ञानं तेन रहितः (५९) 'विधुतारातेजः' हे विधुताराते ! विधुताः कम्पिताः अरातयः शत्रवो येन स तत्संबोधनम्. अजः ब्रह्मा. विधुश्चन्द्रः तारा नक्षत्राणि तासां तेजः प्रकाशः. (६०) 'अहिमकरमयः' अहिं सर्पम्. अकरं नास्ति करो राजदण्डो यस्मिंस्तत्. अयः लोहम् अहयः सर्पाः मकराः मत्स्यविशेषा स्तन्मयः. (६१) 'कुशलवर्धितः कुशलैः शुभसूचक शकुनैर्वर्धितो वर्धा पितः कुशश्च लवश्च कुशलवौ एतन्नामानौ पुत्रौ तयोर्ऋद्धिः संपत्तस्मात् (६२) 'सुरतरवे.' सुरतरवे कल्पवृक्षाय वाञ्छन्ति. सुरतस्य संभो गस्य रवः शब्दस्तस्मिन्. (६३) 'गिरिसार मुखा:' गिरि वाण्यां सारं प्रधानं स्फुटोच्चारणवन्मुखं वदनं येषां ते गिरिसारं लोहम्. उखाः स्थाय:. (६४) 'केकिरणोत्कराः' के पानीये. किरणानां उत्कराः समूहाः हे के किरणोत्क, केका विद्यते येषां ते केकिनः तेषां मयूराणां रणे शब्दे उत्क उत्सुकः तत्संबोधनम् राः द्रव्यम्. (६५) 'विपन्नगा नाम्' विगताः पन्नगाः सर्पा यस्याः सा विपन्नगा नकिंतु पन्नगस हितैव. ना पुमान् अं कृष्णम् विपत्संपत्त्यभावः दरिद्रता नगानां पर्वतानाम् २६ सु. र. भां. २०१ वदन्ति कं निशीथं शमयति कान्वद वारिवाहवृन्दम् । वितरति जगतां मनःसु कीदृङ्मुदमतिमात्रमयं महातडागः ॥ ६६ ॥ किमकरवमहं हरिर्महीभ्रं स्वभुजबलेन गवां हितं विधित्सुः । प्रियतमवदनेन पीयते कः परिणतबिम्ब फलोपमः प्रियायाः ॥ ६७ ॥ परिहरति भयात्तवाहितः किं कमथ कदापि न विन्दतीह भीतः । कथय किमकरोरिमां धरित्रीं नृपतिगुणैर्नृपते स्वयं त्वमेकः ॥ ६८ ॥ पृच्छति शिरसिरुहो मधुमथनं मधुमथनस्तं शिरसिरुहं च । कः खलु चपलतया भुवि विदितः का ननु यानतया गवि गदिताः ॥६९॥ कीदृक्तोयं दुस्तरं स्यात्तितीर्षोः का पूज्यास्मिन्खङ्गमामत्रयस्व । दृष्ट्वा धूमं दूरतो मानविज्ञाः किं कर्तास्मि प्रातरेवाश्रयाशम् ॥ ७० ॥ कीदृक्प्रातर्दीपवर्तेः शिखा स्यादुष्ट्रः पृच्छत्याभजन्ते मृगाः किम् । देवामात्ये किं गते प्रायशो - ऽस्मिँल्लोकः कुर्यान्नो विवाहं विविक्तः ॥ ७१ ॥ कीदृक्सेना भवति रणे दुर्वारा वीरः कस्मै स्पृहयति लक्ष्मीमिच्छन् । का संबुद्धिर्भवति भुवः संग्रामे किं कुर्वीध्वं सुभटजना भ्रातृव्यान् ॥ ७२ ॥ कंसारातेर्वद गमनं केन स्यात्कस्मिन्दृष्टिं संलभते खल्पेच्छुः । कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं लोकम् ॥ ७३ ॥ कीदृक्षः सकलजनो भवेत्सुराज्ञः कः कालो विदित इहान्धकारहेतुः । कः श्रेयान्कुमुदवनस्य को निहन्ति भ्रातृव्यं वद शिरसा जितस्त्वया कः ॥ ७४ ॥ संग्रामे स्फुरदसिना हतास्त्वया के दुःखं के बत निरये नरस्य कुर्युः । कस्मिन्नुद्भवति कदापि नैव लोम ज्ञाताः के जगति महालघुत्वभाजः ॥ ७५ ॥ कीदृक्षं (६६) ‘अरविंदवान्-' अरविं नास्ति रविः सूर्यो यस्मिन्सः अरविस्तम्. दवान्दावानलान्. अरविन्दवान् अरविन्दानि कमलानि विद्यन्ते यस्मिन्सः. (६७) ‘अधरः.' हे कृष्ण ! त्वं गोवर्धनपर्वतं अधरः हस्ते धृतवान्. अधरः ओष्ठः (६८) 'समरंजयम्' समरं संग्रामम्. जयं जयवादम्. अहं समरंजयं रागिणीं पृथ्वीमकरवम्. (६९) 'केशव नौका' हे केश• वनौकाः वने ओको गृहं यस्यासौ वानरः हे केशव ! नौका नावः (१०) 'अनुमातासे.' अनु न विद्यते नौः यत्र तत् नौकार हितमित्यर्थः. माता जनित्री. हे असे खड्ग ! अनुमातासे त्वं अनुमानं करिष्यसि . (७१) 'विभाकरभवनम् ' विभा विगता भा कान्तिर्यस्याः सा. हे करभ उष्ट्र ! वनम् विभाकरभवनं विभाकरस्य सूर्यस्य भवनं गृहं तत्. सिंहराारीं गते जीवे लोकाः विवाहादिशुभकार्याणि न कुर्वन्ति. सिंहस्याधिपतिः सूर्यः. (७२) 'पराजयेमहि' परा उत्कृष्टा. उत्कृष्टा एव सेना जयं प्राप्नुयादित्यर्थः आजये संग्रामाय. हे महि हे पृथ्वि ! वयं पराजयेमहि जयेम. (७३) 'विनोदयेयम् ' विना गरुडेन. उदये सति परस्योन्नतौ सत्याम् अयं भाग्यम् अहं तं विनोदयेयं विनोदेन युक्तं कुर्यामित्यर्थः. (७४) 'विधुरविरहितः ' विधुरेण कष्टेन विरहितः सुखीत्यर्थः विधुश्च रविश्च विधुरवी चन्द्रादित्यौ ताभ्यां रहितः, विधुश्चन्द्रः अविः ऊर्णायुः अहितः शत्रुः (७५) 'नरकरेणवः' नराश्च करेणवश्च मनुष्यहस्तिन: नरकस्य रेणवो धूल्यः अग्निरूपा वालुका इत्यर्थः नरकरे पुरुषाणां हस्ततले. अणवः परमाणवः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy