SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९८ सुभाषितरत्नभाण्डागारम् कुत्रोदेत्युदयाचलस्य तेरणी रम्या यतिः कस्य खे कान्त्या भान्ति च किं करोति गणको यष्टिं विधृत्यैति कः । कस्मिआग्रति जन्तवो न च कदा सूते च का कः प्रियः शृङ्गाग्रे तुरगस्य भानि गणयत्यन्धोऽह्नि वन्ध्यासुतः ॥ ३८ ॥ अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दर्शने समस्तमनुजैः का प्रार्थ्यतेऽहर्निशम् । दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह किमादरेण सहसा यारानदी दंशमा ॥ ३९ ॥ कस्मिन्शेते मुरारिः क्व न खलु वसतिर्वायसी को निषेधः स्त्रीणां रागस्तु कस्मिन्क्क नु खलु सितिमाँ शौरिसंबोधनं किम् । संबुद्धिः का हिमांशोर्विधिहरवयसां चापि संबुद्धयः का ब्रूते लुब्धः कथं वा कुरुकुलहननं केन तत्केशवेन ॥ ४० ॥ गच्छन्ति काजिवहौ हुतनिजतनवः का भिनत्ति स्वकूलं किं स्याद्योज्यं विकल्पे क्रॅकचनिभनखैः किं नृसिंहेन भिन्नम् । कीदृग्दित्याः प्रसूतिः किमनलशमनं का नृपैः पालनीया को वन्द्यः कः प्रमार्ष्टि त्रिभुवनकलुषं स्वर्धुनी - वारिपूरः ॥ ४१ ॥ पुंसः संबोधनं किं विदधति करिणां के चोऽर्द्विषत्किं का शून्या ते रिपूणां नरवरनरकं कोऽव - धीद्रोचकं किम् । के वा वर्षासु न स्युर्बिसमिव हरिणा किं नखाग्रैर्विभिन्नं को वा मार्गे विसर्पन्विघटयति तरून्नर्मदावारिपूरः ॥ ४२ ॥ किं तृष्णाकारि कीदृग्रथचरणमहो 'रौति कः काब्धिकाश्चिः कोऽपस्मारी भुजंगे किमु कलिशमनं त्वार्यसंबोधनं किम् । का सुन्दर्यामपीन्दुः कथमचलभृतः का च संबुद्धिरग्नेर्बीजं किं कींवनीजारमणमतिहरा हेमसारङ्गलीला ॥ ४३ ॥ ताराविष्णूरणाविट्ख गहृदयरमास्कन्द संबुद्धयः क क्व स्याद्धातुत्रयं लुग्विकरणपठितं कुत्र तत्त्वावबोधः । चत्वार (३८) चतुर्थपादस्थपदैरनुक्रमेणोत्तराणि (३९) यारा जाराः नदी. दंश. मा लक्ष्मीः. यारानदीदं शमा हे मित्र, एतादृशी दीपकलिका मया कदापि न दृष्टा इत्यथैकं यावनीभाषया उत्तरम्. (४०) के उदके. शवे प्रेते. न नवे. शके यत्रनविशेषे. केशव. इन क. ईश. वे न केशवेन. (४१) स्वः स्वर्गे. धुनी नदी. वा. रिपूरः रिपोर्हिरण्यकशिपोरुरः स्थलम्. स्वर्धुनी स्व स्वर्गे धूनयति कम्पयतीति तादृशी. वारि उदकम्. पूः पुरी. अः विष्णुः स्वर्धुनीवारिपूर:. (४२) नः मदा. वारि. पूः नगरी. अः विष्णुः नर्म क्रीडानर्म. दावाः दावानलाः रिपूरः हिरण्यकशिपोरुरःस्थलम्• नर्मदावारिपूरः (४३) हेम. सारं अराभिः सहितम्. गली प्रशस्तकण्ठः, इला पृथ्वी. लाली लालावान्- गरं विषम्. साम सान्त्वम्. हे. हेला लीला. मली मलवान्. कलङ्कीति यावत्. साग अगैर्वृक्षैः सहित. रम्. हेमसारङ्गलीला हेम्नः सुवर्णस्य सारो मृगः तस्य लीला. [ ४ प्रकरणम् स्तद्धिताः स्युः क खलु विगतैकैकवर्णस्वरूपाः किं सूत्रं पाणिनीयं विकसति न सहस्रोक्तिभिर्भास्वरेऽपि ॥ ४४ ॥ १ कस्मिन्प्रदेशे. २ सूर्यः. ३ श्वेतवत्त्वम् ४ संग्रामानौ . ५ त्यक्तनि जदेहाः ६ करपत्रसदृशनखैः ७ शोभा. ८ रमणीयम् ९ गायति १० अवनिजा सीता तद्रमणो रामः बहिरालापाः पूजायां किं पदं प्रोक्तमस्तनं को बिभर्त्यरः । क आयुघतया ख्यातः प्रलम्बासुरविद्विषः ॥ १ ॥ को दुराढ्यस्य मोहाय का प्रिया मुरविद्विषः । पदं प्रश्नवितर्फे किं को दन्तच्छदभूषणम् ॥ २ ॥ पक्षिश्रेष्ठसखीबसुरा वाच्याः कथं वद । ज्येष्ठे मासि गताः शोषं कीदृश्योऽल्पजला भुवः ॥ ३ ॥ विश्वंभरा प्रलम्बनत्री हिमानुषसंयुगाः । कथं वाच्या भवन्त्येता दिनान्ते, विकसन्ति काः ॥ ४ ॥ आनन्दयति कोऽत्यर्थ सज्जनानेव भूतले । प्रबोधयति पद्म तमांसि च निहन्ति कः ॥ ५ ॥ अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये । प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम् ॥ ६ ॥ कीदृक्किं स्यान्न मत्स्यानां हितं स्वेच्छाविहारिणाम् । गुणैः परेषामत्यर्थ मोदते कीदृशः पुमान् ॥ ७ ॥ अगस्त्येन पयोराशेः कियत्किं पीतमुज्झम् । त्वया वैरिकुलं वीर समरे कीदृशं कृतम् ॥ ८ ॥ के स्थिराः के प्रियाः स्त्रीणां कोऽप्रियो नक्तमाह्वय । नृत्यभूः कीदृशी रम्या नदी कीदृग्घनागमे ॥ ९ ॥ काकृत विष्णुना कीदृग्योषितां कः प्रशस्यते। असेव्यः कीदृशः (४४) हे भ. हे अ. अ. भा. वे. भाव. इ. भावे. भा. दीप्तौ वा गतिगन्धनयो: इण गतौ. भावे. भवस्यापत्यं भावि अवस्याविः वस्य 'भाखरे' इत्यस्मिन्पदे 'भावे' इत्युत्तरं स्फुरति. 'भास्वरे' इत्यत्र सकार विः अस्य इः सश्च रश्च अश्च स्राः तेषामुक्तयः स्रोक्तयः ताभिः सह अकार रेफैर्विना 'भावे' इति पाणिनिसूत्र मुद्भव तीत्यर्थः. (१) 'सुनासीर:' सुः पूजायाम् ना पुरुषः सीरो हलम्. (२). 'रामानुरागः' राः धनम् मा लक्ष्मीः नु इति वितर्के. रागः आरक्तत्वम्. (३) 'विवरालीनकुलीराः ' विः पक्षी. वरं श्रेष्ठम् आली सखी. नकुली नकुलस्त्री- इरा मदिरा विवरेषु छिद्रेषु आलीनाः प्रविष्टाः कुलीराः जलचरजीव विशेषा यासु ताः. (४) 'कुवलयवनराजयः' कुः पृथ्वी. (बवयोरैक्यात्) बलो बलभद्रः यवो धान्यभेदः नरो मनुष्य : आजि: संग्रामः कुवलयानां कमलानां वनानां राजयः पङ्कयः. (५) 'मित्रोदयः' मित्राणां सखीनामुदयो वृद्धिः. मित्रस्य सूर्यस्य उदय उद्गमनम् . (६) 'मदनवती.' मदना मदनवृक्षा विद्यन्ते यस्यां सा अतिगहनत्वाद्दुर्गमा. मदनः कामो विद्यते यस्याः सा सयौ - वना इत्यर्थः. (७) 'विमत्सरः' वयः पक्षिणो विद्यन्ते यस्मिंस्तत् विमत् ईदृशं सरस्तडागम्. विगतो मत्सरोऽहंकारो यस्य सः. (८) 'सकलं - कम्ः' सकलं समस्तं कं पानीयं मूत्रं च. कलङ्केन लान्छनेन सह वर्तमानं कृतम् . ( ९ ) ' अगाधवारिपूरजनिततरङ्गा' अगाः पर्वताः धवाः भर्तारः रिपुः शत्रुः. हे रजनि ! ततरङ्गा ततो विस्तीर्णो रङ्गो नर्तनमण्डपो यस्यां सा. अगाधेन अतलस्पर्शेन वारिपूरेण जनसमूहेन जनिता उत्पादितास्तरङ्गा लहयों यस्यां सा.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy