SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सामान्यनीतिः ॥ विराजते कुरूपता शीलतया विराजते । कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ९९३ ॥ यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते श्रुतेन शीलेन कुलेन कर्मणा ॥ ९९४ ॥ कुदेशमासाद्य कुतोऽर्थसंचयः कुपुत्रमासाद्य कुतो जलाञ्जलिः । कुगेहिनीं प्राप्य गृहे कुतः सुखं कुशिव्यमध्यापयतः कुतो यशः ॥ ९९५ ॥ मात्रा समं नास्ति शरीरपोषणं चिन्तासमं नास्ति शरीरशोषणम् । भार्यासमं नास्ति शरीरतोषणं विद्यासमं नास्ति शरीरभूषणम् ॥९९६ गुणी गुणं वेत्ति न वेत्ति निर्गुणो बली बलं वेत्ति न वेत्ति निर्बलः । पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न मूषकः ॥ ९९७ ॥ सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम् । सुखाच्च यो याति नरो दरि द्रतां धृतः शरीरेण मृतः स जीवति ॥ ९९८ ॥ स दीक्षितो यः सकलं सदीक्षते स पण्डितो यः करणैरखण्डितः । स तापसो यः परतापकर्षणः स धार्मिको यः परमर्म न स्पृशेत् ॥ ९९९ ॥ यशस्करे कर्मणि मित्रसंग्रहे प्रियासु नारीष्त्रधनेषु बन्धुषु। क्रतौ विवाहे व्यसने रिपुक्षये धनव्ययस्त्वेषु न गण्यते बुधैः ॥ ९२० ॥ विवादशीलां स्वयमर्थ चोरिणीं परानुकूलां बहुपाकपाकिनीम् । सक्रोधिनीं चान्यगृहेषु वासिनीं त्यजन्ति भार्या दशपुत्र मातरम् ॥ ९२९ ॥ अतिप्रचण्ड बहुदुःखभागिनी विवादशीला परगेहगामिनी । भर्तुः स्वयं निन्दति या च तस्करी त्यजेत्स्वभार्या दशपुत्रपुत्रिणीम् ॥ ९२२ ॥ कुले कलङ्कः कवले कदान्नता सुतः कुबुद्धिर्भवने दरिद्रता । रुजः शरीरे कलहप्रिया प्रिया गृहागमे दुर्गतयः षडेते ॥ ९२३ ॥ प्रकटं मृदु नाम जल्पतः परुषं सूचयतोऽर्थमन्तरा । शकुनादिव मार्गवर्तिभिः पुरुषादुद्विजितव्यमीदृशात् ॥ ९२४ ॥ मतिरेव बलागरीयसी यदभावे करिणामियं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ ९२५ ॥ महतां यदि निन्दने रतिर्गुणसंख्यैव तदा विधीयताम् । असतामपि चेतवे रतिर्ननु तद्दृषणमेव गण्यताम् ॥ ९२६ ॥ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् । स्थिर - घीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ९२७ ॥ महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ९२८ ॥ क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः । शिरसौधमधत्त शंकरः सुरसिन्धोर्मधुजित्तमाि ॥ ९२९ ॥ कृतिनामकृती कथं कथं वा तुलनां यातु कृतैर्वचः प्रपञ्चैः । 1 १७५ बहुभिर्विधृतैः कचैः कलापैर्विधवा किं सघवोपमानमेत ॥ ९३० ॥ अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकाि कामिनोः ॥ ९३९ ॥ उपकारकमायतेर्भृशं प्रसवः कर्मफलस भूरिणः । अनपायि निबर्हणं द्विषां न तितिक्षासम - मस्ति साधनम् ॥ ९३२ ॥ जरा रूपं हरति हि धैर्यमाशा मृत्युः प्राणान्धर्मचर्यामसूया । कामो ह्रियं वृत्तमनार्य सेवा क्रोधः श्रियं सर्वमेवाभिमानः ॥ ९३३ ॥ गुणवानपि नोपयाति पूजां पुरुषः सत्पुरुषैरकथ्यमानः । न हि सौरमणिः स्वभावकान्ति रविपादैरन धिष्ठितः करोति ॥ ९३४ ॥ सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदः ॥ ९३५ ॥ विना गोरसं को रसो भोजनानां विना गोरसं को रसो भूपतीनाम् । विना गोरसं को रसः कामिनीनां विना गोरसं को रसः पण्डितानाम् ॥ ९३६ ॥ सकलापि कला कलावतां विकलां पुण्यकलां विना खलु । सकले नयने वृथा यथा तनुभाजां हि कनीनिकां विना ॥ ९३७ ॥ सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो भवति पुण्यतरोः फलमीदृशम् ॥ ९३८ ॥ कैनकभूषण संग्रहणोचितो यदि मणिस्त्रपुणि प्रणिधीयते । न स विरौति न चापि हि शोभते भवति योजयितुर्वचनीयता ॥ ९३९ ॥ सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधरपदत्रीमवाप्य धूमो ज्वलनविनाशमनुप्रयाति नाशम् ॥ ९४० ॥ परिहरत पराङ्गनानुषङ्ग बत यदि जीवितमस्ति वल्लभं वः । हरहर हरिणीदृशो निमित्तं दश दशकंधरमौलयो लुठन्ति ॥ ९४९ ॥ शिशुरपि निपुणो गुरोर्गरीयान्न तु वपुषैव महान्महत्प्रतिष्ठः । मणिरणुरपि भूषणाय पुंसां न तु पृथुलैव शिला विलास हेतुः ॥ ९४२ ॥ अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत्कः । शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरःसु धत्ते ॥ ९४३ ॥ नितम्बो विशालः कटिर्मध्यसूक्ष्मा कुचद्वन्द्वमत्यन्तभव्यं मुखं च । वचश्चेन्न किंचिद्रसालं रमण्यास्ततः किं ततः किं ततः किं ततः किम् ॥ ९४४ ॥ स्तब्धस्य नश्यति यशो विषमस्य मैत्री नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ २४५ ॥ दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः संतापयन्ति कमपथ्यभुजं न रोगाः । १ ऐश्वर्यम्. २ गौरवम्. ३ सुवर्णालंकारसंग्रहयोग्यः ४ हीरकादिः. ५ बजे. ६ निन्दा ७ शास्त्रवेत्ता. ८ श्रेष्ठः ९ महत्सु प्रतिष्ठा
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy