SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सामान्यनीतिः 1 । ॥ मृतं तदपि मृत्यवे ॥ ४३३ ॥ न संशयमनारुह्य नरो भद्राणि पश्यति । संशयं पुनरारुह्य यदि जीवति पश्यति ॥ ४३४ ॥ गतानुगतिको लोकः कुट्टनीमुपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नमपि द्विजम् ॥ ४३५ ॥ प्राणा यथात्मनो ऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ ४३६ ॥ प्रत्याख्याने च दाने च सुख - दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥ ४३७ ॥ अबशेन्द्रियचित्तानां हस्तिस्नानमिव क्रिया दुर्भगाभरणप्रायो ज्ञानं भारः क्रियां विना ॥ ४३८ ॥ शङ्काभिः सर्वमाक्रान्तमन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं नु वा ॥ ४३९ ॥ सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तारः संशयानां च क्लिश्यन्ते लोभमोहिताः ॥ ४४० ॥ षड्दोषाः पुरुषेणेह हातव्या भूतिमि - च्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ४४१ माता मित्रं पिताचेति स्वभावात्रितयं हितम् । कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ ४४२ ॥ जातिमात्रेण किं कश्चिद्धन्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्योऽथवा भवेत् ॥ ४४३ ॥ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ४४४ ॥ आपत्सु मित्रं जानीयाद्युद्धे शूरमृणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ ४४५ ॥ सुहृदां हितकामानां यः शृणोति न भाषितम् । विपत्संनिहिता तस्य स नरः शत्रुनन्दनः ॥ ४४६ ॥ अपराधो मेऽस्तीति नैतद्विश्वासकारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ॥ ४४७ ॥ दीपनिर्वाणगन्धं च सुहृद्वाक्यमरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न पश्यन्ति गतायुषः ॥ ४४८ ॥ मार्जारो महिषो मेषः काकः कापुरुषस्तथा विश्वासात्प्रभवन्त्येते विश्वासस्तत्र नो हितः ॥ ४४९ ॥ यदशक्यं न तच्छक्यं यच्छक्यं शक्यमेव तत् । नोदके शकटं याति न च नौर्गच्छति स्थले ॥ ४५० ॥ द्रवत्वा - त्सर्वलोहानां निमित्तान्मृगपक्षिणाम् । भयाल्लोभाच्च मूर्खाणां संगतं दर्शनात्सताम् ॥ ४५९ ॥ पटुत्वं सत्यवादित्वं कथायोगेन बुध्यते । अस्तब्धत्वमचापल्यं प्रत्यक्षेणावगम्यते ॥ ४५२ ॥ लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पश्च यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ४५३ ॥ अपुत्रस्य गृहं शून्यं सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥ ४५४ ॥ परि च्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद - कर्तॄणां विपदः स्युः पदे पदे ॥ ४५५ ॥ पानीयं वा निरा न । १६३ यासं स्वाद्वन्नं वा भयोत्तरम् । विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ ४५६ ॥ जलमग्निर्विषं शस्त्रं क्षुयाधिः पतनं गिरेः । निमित्तं किंचिदासाद्य देही प्राणान्वि - मुञ्चति ॥ ४५७ ॥ नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्वपि न मुह्यन्ति नराः पण्डितबुद्धयः ॥ ४५८ ॥ सुखमापतितं सेव्यं दुःखमापतितं तथा । चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥ ४५९ ॥ वृत्त्यर्थं नातिचेष्टेत सा हि धात्रैव निर्मिता । गर्भादुत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ ४६० ॥ येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता येन स ते वृत्तिं विधास्यति ॥ ४६१ ॥ धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहृता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ ४६२ ॥ जन्मनि क्लेशबहुले किं नु दुःखमतः परम् । इच्छासंपद्यतो नास्ति यचेच्छा न निवर्तते ॥ ४६३ ॥ यद्यदेव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सोऽर्थो यतो वाञ्छा निवर्तते ॥ ४६४ ॥ अम्मांसि जलजन्तूनां दुर्गे दुर्गनिवासिनाम् । स्वभूमिः श्वापदादीनां राज्ञां मन्त्री परं बलम् ॥ ४६५ ॥ कायः संनिहितापायः संपदः पदमापदाम् । समागमाः सापगमाः सर्वमुत्पादि भङ्गुरम् ॥ ४६६ ॥ अधोऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्युप पश्यन्तः सर्व एव दरिद्रति ॥ ४६७ ॥ अलब्धं चैत्र लिप्सेत लब्धं रक्षेदवेर्क्षया । रक्षितं वर्धयेत्सम्यग्वृद्धं तीर्थेषु निक्षिपेत् ॥ ४६८ ॥ शीतवातातपक्लेशान्सहन्ते यान्पराश्रिताः । तदंशेनापि मेधावी तपस्त्यक्त्वा सुखी भवेत् ॥ ४६९॥ एतावज्जन्मसाफल्यं यदनायत्तवृत्तिता । ये पराधीनतां यातास्ते वै जीवन्ति के मृताः ॥ ४७० ॥ आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ ४७१ ॥ पृष्ठतः सेवयेदर्क जठरेण हुताशनम् । स्वामिनं सर्वभावेन परलोकममायया ॥ ४७२ ॥ पञ्चभियति दासत्वं पुराणैः कोऽपि मानवः । कोऽपि लक्षैः कृती कोऽपि लक्षैरपि न लभ्यते ॥ ४७३ ॥ वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४७४ ॥ आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ ४७५ ॥ अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ॥ ४७६ ॥ म स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ ४७७ ॥ यस्य यस्य १ नाणकविशेषः, रूप्यकैरिति यावत् २ पुनः पुनदर्शनेन.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy