________________
सुभाषितरत्नभाण्डे/गारम्
[ ३ प्रकरणम्
तु
॥
सस्यं च गृहमागतम् ॥ ४१० ॥ असंतुष्टा द्विजा नष्टाः संतुष्टाश्च महीभुजः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः ॥ ४११ ॥ अवंशपतितो राजा मूर्खपुत्रश्च पण्डितः । अधनेन धनं प्राप्तं तृणवन्मन्यते जगत् ॥ ४९२ ॥ पुस्तकस्था या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ ४१३ || पादपानां भयं वातात्पद्मानां शिशिराद्भयम् । पर्वतानां भयं वज्रात्साधूनां दुर्जनाद्भयम् ४१४ ॥ यस्य क्षेत्रं नदीतीरे भार्या विनयो नास्ति मृत्युरेव न संशयः ॥ ४९५ ॥ असंभाव्यं न वक्तव्यं प्रत्यक्षमपि दृश्यते । शिला तरति पानीयं नित्यं सुखमरोगिण । भार्या भर्तुः प्रिया यस्य तस्य गीतं गायति वानरः ॥ ४१६ ॥ सुभिक्षं कृषके नित्यं नित्योत्सवं गृहम् ॥ ४१७ ॥ ला कार्यशा बुद्धिनाशाय निर्धनम् । याचना माननाशाय कुलनाशाय भोजनम् ॥ ४९८ ॥ प्रथमे नार्जिता विद्या द्वितीयेनार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥४१९ ॥ यत्स्यात्सर्वं तद्विफलं भवेत् ॥ ४२० ॥ कूपोदकं वटच्छाया नदीकूले च ये वृक्षाः परहस्तगतं धनम् । कार्ये स्त्रीगोचरं श्यामा स्त्री चेष्टकालयम् । शीतकाले भवेदुष्णं ग्रीष्मकाले च शीतलम् ॥ ४२१ ॥ विषं चङ्क्रमणं रात्रौ विषं राज्ञोऽनुकूलता । विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ४२२ ॥ दुरधीता विषं विद्या अजीर्णे भोजनं विषम् । विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥ ४२३ ॥ प्रदोषे निहतः पन्थाः पतिता निहताः स्त्रियः । अल्पबीजं हतं क्षेत्रं भृत्यदोषाद्धतः प्रभुः ॥ ४२४ ॥ हतमश्रोत्रियं श्राद्धं हतो यज्ञस्त्वदक्षिणः । हता रूपवती वन्ध्या हतं सैन्यमनायकम् ॥ ४२५ ॥ किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते । नमेक्षपणके देशे रंजकः किं करिष्यति ॥ ४२६ ॥ अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ ४२७ ॥ आयुः कर्म च वित्तं च विद्या निधनमेव च । पञ्चैतान्यपि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ ४२८ ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । इति चिन्ताविषघ्नोऽयमगदः किं न पीयते ॥४२९ ॥ नाद्रव्ये निहिता काचित्क्रिया फलवती भवेत् । न व्यापारशतेनापि शुकवत्पाठ्यते बकः ॥ ४३० ॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डि - तम् ॥ ४३१ ॥ उत्थायोत्थाय बोद्धव्यं महद्भयमुपस्थितम् । मरणव्याधिशोकानां किमद्य निपतिष्यति ॥ ४३२ ॥ अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा । यत्रास्ते विषसंसर्गोऽ
॥
१ दिगम्बर साधुव्यावृते प्रदेशे २ वस्त्रनिर्णेजकः, रअको वा.
१६२
।
।
सर्वे
शोच्यं मैथुनमप्रजम् । निराहाराः प्रजाः शोच्याः शोच्यं राज्यमराजकम् ॥ ३८८ ॥ कुलीनैः सह संपर्क पण्डितैः सह मित्रताम् । ज्ञातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ ३८९ ॥ कष्टा वृत्तिः पराधीना कष्टथे वासो निराश्रयः निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ ३९० ॥ तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा । वेश्यानां च कुतः स्नेहः कुतः सत्यं च कामिनाम् ॥ ३९१ ॥ प्रेषितस्य कुतो मानः कोपनस्य कुतः सुखम् । स्त्रीणां कुतः सतीत्वं च कुतो मैत्री खलस्य च ॥ ३९२ ॥ दुर्बलस्य बलं राजा बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम् ॥ ३९३ ॥ यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ३९४ ॥ शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥ ३९५ ॥ सद्योमांसं नवान्नं च बाला स्त्री क्षीरभोजनम् । घृतमुष्णोदकं चैव सद्यः प्राणकराणि षट् ॥ ३९६ ॥ सिंहादेकं बकादेकं षट् शुनस्त्रीणि गर्दभात् । वायसात्पश्ञ्च शिक्षेच चत्वारि कुक्कुटादपि ॥ ३९७ ॥ प्रभूतमल्पकार्ये वा यो नरः कर्तुमिच्छति । सर्वारम्भेण तत्कुर्यात्सिंहादेकं प्रकीर्तितम् ॥ ३९८ ॥ न्द्रियाणि संयम्य वकत्रत्पतितो जनः । कालदेशोपपन्नानि सर्वकार्याणि साधयेत् ॥ ३९९ ॥ बह्वाशी स्वल्पसंतुष्टः सुनिद्रः शीघ्रचेतनः। प्रभुभक्तश्च शूरश्च ज्ञातव्याः षट् शुनो गुणाः ॥ ४०० ॥ अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति । ससंतोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात् ॥ ४०१ ॥ गूढमैथुनधाष्टर्थे च काले चालयसंग्रहम् । अप्रमादमनालस्य पश्च शिक्षेत वायसात् ॥ ४०२ ॥ युद्धं च प्रातरुत्थानं भोजनं सह बन्धुभिः । स्त्रियमापगतां रक्षेचतुः शिक्षेत कुक्कुटात् ॥ ४०३ ॥ कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ ४०४ ॥ आपदां कथितः पन्था इन्द्रियाणा - मसंयमः । तज्जयः संपदां मार्गो येनेष्टं तेन गम्यताम् ॥ ४०५ ॥ न च विद्यासमो बन्धुर्न च व्याधिसमो रिपुः । न चापत्यसमः स्नेहो न च दैवात्परं बलम् ॥ ४०६ ॥ समुद्रावरणा भूमिः प्राकारावरणं गृहम् । नरेन्द्रावरणा देशाचरित्रावरणाः स्त्रियः ॥ ४०७ ॥ घृतकुम्भसमा नारी तप्ता - ङ्गारसमः पुमान् । तस्माद्धृतं च वह्निं च नैकत्र स्थापयेद्बुधः ॥ ४०८ ॥ आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा । षडुणो व्यवसायश्च कामश्वाष्टगुणः स्मृतः ॥ ४०९ ॥ जीर्णमन्नं प्रशंसीयाद्भार्या च गतयौवनाम् । रणात्प्रत्यागतं शूरं
1