________________
राजनीति:
१५१
1
नाङ्कुरितं शौर्य जयाय न तु केवलम् । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा मृतिः ॥ ३५९ ॥ मृदुभिर्बहुभिः शूरः पुंभिरेको न बाध्यते । कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ३६० ॥ विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३६१ ॥ प्रिय यावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् || ३६२ ॥ रिक्ताः कर्मणि पटवस्तृतास्त्वसा भवन्ति भृत्या ये । तेषां जलौकसामिव पूर्णानां रिक्तता कार्या ॥ ३६३ ॥ गन्तव्या राजसभा द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थस्तथा प्यनर्था विनश्यन्ति ॥ ३६४॥ अतितेजस्व्यपि राजा पाना - सक्तो न साधयत्यर्थान् । तृणमपि दग्धुमशक्तो वडवाग्निः संपिवत्यध्धिम् ॥ ३६५ ॥ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिरूढमूलत्वात् । नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ३६६ ॥ सप्रतिबन्धं कार्य प्रभुरधिगन्तुं सहायवानेव । दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि ॥ ३६७॥ अभिमुखनिहतस्य सतस्तिष्ठतु तावज्जयोऽथवा स्वर्गः । उभयवलसाधुवादश्रवणसुख स्यैव नास्त्यन्तः ॥ ३६८ ॥ अविवेकमतिर्नृपतिर्मश्री गुणवत्सु वक्तिग्रीवः । यत्र खलाश्च प्रबलास्तत्र कथं सज्जनावसरः ॥ ३६९ ॥ अतिगम्भीरे भूपे कूप इव जनस्य दुरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः || ३७० ॥ सेदबनर्मेसदनुशासनमाश्रितभरणं च राजचिह्नानि । अभिषेकः पटबन्धो बालव्यजनं व्रणस्यापि ॥ ३७२ ॥ यदि तव हृदयं विद्वन्सुनयं स्वप्नेऽपि मा स्म सेविष्ठाः । सच्चिवजितं षण्ढलितं युवतिजितं चैव राजानम् ॥ ३७२ ॥ आश्रयतव्यो नरपतिरर्जयितव्यानि भूरि वित्तानि । आरब्धव्यं वितरणमानेतथ्यं यशोऽपि दशदिग्भ्यः ॥ ३७३ ॥ असमैः समीयमानः समैश्च परिहीयमाणसत्कारः । धुरि यो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३७४ ॥ अनुया - तानेकजनः परपुरुषैरुह्यतेऽस्य निजदेहः । अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ॥ ३७५ ॥ स क्षत्रियस्त्राण सहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । बहन्द्वयीं यद्यफलेऽर्थजाते करोत्यसंस्कार हतामिवोक्तिम् । ॥ ३७६ ॥ क्षात्किल चायत इत्युद्यः क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येंन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥ ३७७ ॥ अत्युच्छ्रिते मत्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः । सा स्त्रीस्वभावादसहा भरस्य
१ सतामवनं रक्षणम् २ दुष्टशासनम् ३ अत्युन्नते.
तयोर्द्वयोरेकतरं जहाति ॥ ३७८ ॥ यः काकिनीमप्यपथप्रपन्नां समुद्धरेन्निष्कसहस्र तुल्याम् । कालेषु कोटिष्वपि मुक्तहस्तस्तं राजसिंहं न जहाति लक्ष्मीः ॥ ३७९ ॥ उपेक्षितः क्षीणवलोsपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसावसाध्यतां व्याधिरिव प्रयाति ॥ ३८० ॥ मित्राणि शत्रुत्वमिवानयन्ती मित्रत्वमप्यवशाच शत्रून् । नीतिर्नयत्यस्मृतपूर्ववृत्तं जन्मान्तरं जीवत एव पुंसः ॥ ३८९ ॥ सन्मत्रिणा वर्धयते नृपाणां लक्ष्मीमहीधर्मयशःसमूहः । दुर्मन्त्रिणा नाशयते तथैव लक्ष्मीमहीधर्मयशःसमूहः ॥ ३८२ ॥ नियुक्तहस्तार्पितराज्यभारास्तिष्ठन्ति ये सौधविहारसाराः । बिडालवृन्दार्पित दुग्धपूराः स्वपन्ति मूढधियः क्षितीन्द्राः ॥ ३८३ ॥ सुहृदामुपकारकारणाद्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ ३८४ ॥ विष॑मोऽपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः । स तु तत्र विशेषदुर्लभः सेदुपन्यस्यति त्यवर्त्म यैः ॥ २८५ ॥ द्विषतामुदयः सुमैघसा गुरुरखन्ततरः सुमर्षणः । न महानपि भूतिमिच्छता फलसंपत्प्रवणः परिक्षयः ॥ ३८६ ॥ अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः । क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥ ३८७ ॥ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया । अपयान्त्यचिरान्महींभुजां जननिर्वादभयादिव श्रियः ॥ ३८८ ॥ क्षययुक्तमपि स्वभावजं दधतं धम शिवं समृद्धये । प्रणयन्त्यनपायमुस्थितं प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ ३८९ ॥ प्रभवः खलु " कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः । स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ ३९० ॥ अभिमानवतो मनस्विनः प्रियमुच्चैः पदमारुरुक्षतः । विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् ॥ ३९१ ॥ विपदो - ऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ ३९२ ॥ चञ्चलं वसु . नितान्तमुन्नता मेदिनीमपि हरन्त्यरातयः । भूधरस्थिरमुपे
9
१ दुधोऽपि पक्षे, - दुःप्रवेशोऽपि. २ विगृह्यते; पक्षे, - प्रविश्यते. ३ कृताभ्यासद्यपायः सन्; पक्षे, कृतजलावतारः सन्. ४ देशकालाद्यविरुद्धम्, यथार्थमित्यर्थः पक्षे, गर्तग्राहपाषाणादिरहितम् ५ संधिविग्रहादिकार्यम्; पक्षे, -लानादिकम् . ६ यथा केचित्कृत - तीर्थे पयसि गम्भीरेऽपि प्रवेष्टारः सन्ति, तीर्थंकरस्तु विरलः, तद्वन्नीतावपि निगूढमपि तत्त्वं सति वक्तरि बोद्धारः सन्ति, वक्ता तु न सुलभ इत्यर्थः ७ अत्यन्तदुरन्तः क्षयोन्मुख इत्यर्थः ८ फलसि. ड्यु मुखः ९ अनुत्साहेन. १० क्षात्रं तेजः; पक्षे, - प्रकाशम् . ११ अर्धराशिः. १२ तुरंगसैन्यम्. १३ 'सहायाः साधनोपाया विभागो देशकालयोः । विनिपातः प्रतीकारः सिद्धिः पश्चाङ्ग इष्यते ॥ इति.