________________
१५०
[ ३ प्रकरणम्
।
॥ ३३६ ॥ नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् । विसृजेन्नैव लुब्धेभ्यो विश्वसेनापकारिषु ॥ ३३७ ॥ चरेद्धीमानकटको युञ्जेत्स्नेहं न नास्तिकः । अनृशंसश्चरेदर्थं चरेत्कार्यमनुद्धतः ॥ ३३८ ॥ संदधीत न चानायैर्विगृह्णीयान्न बन्धुभिः । नाभक्तं चारयेच्चारं कुर्यात्कार्यमपीडया ॥ ३३९ ॥ सर्वे यत्र विनेतारः सर्वे यत्राभिमानिनः । सर्वे महत्त्वमिच्छन्ति कुलं तदवसीदति ॥ ३४० ॥ अकृत्वा निजदेशस्य रक्षां यो विजिगीषते । स नृपः परिधानेन वृतमौलिः पुमानिव ॥ ३४९ ॥ विजिगीषुररिर्मित्रं पाष्णिग्राहोऽप्यमध्यमः । उदासीनोऽन्तरान्तर्धिरित्येषा नृपतेः स्थितिः ॥ ३४२ ॥ गृध्राकारोऽपि सेव्यः स्याद्वंसाकारैः सभासदैः । हंसाकारोऽपि संत्याज्यो गृध्राकारैः सभासदैः || ३४३ ॥ ये ह्याहवेषु वध्यन्ते स्वाम्यर्थमपरामुखाः । विकटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३४४ ॥ पदानि ऋतुतुल्यानि आहवेष्वनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ ३४५ ॥ तवाहंवादिनं क्लीवं निर्हेतिं परमागतम् । न हन्याद्विनिवृत्तं च युद्धं प्रेक्षितुमागतम् ॥ ३४६ ॥ सुतभृत्य सुहृद्वैरिखामिसद्गुरुदैवते । एकैकोत्तरतो वृद्ध्या श्रीकारः पत्रमूर्धनि पक्षहीनो मृगेन्द्रोऽपि भूमिसंस्थो निरीक्षते ॥ ३४८ ॥ ॥ ३४७ ॥ सपक्षो लभते काको वृक्षस्य विविधं फलम् । सपक्षो लभते लक्षं गुणमुक्तोऽपि मार्गणः । न लक्षस्थ विपक्षः स्याद्गुणैरापूर्यते यदि ॥ ३४९ ॥ परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः । संनद्धास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥३५०॥ जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले । तस्माद्युद्धं विधातव्यं हन्तव्या परवाहिनी ॥ ३५१ ॥ क्षे शेते तेऽभिमारुतम् ॥ ३५२ ॥ सद्वंशसंभवः शुद्धः विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदेर्चिषं कोटिदोsपि गुणान्वितः । कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ॥ ३५३ ॥ असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः । अनाक्रम्य जगत्कृत्स्नं नो संध्यां भजते रविः ॥ ३५४ ॥ चिन्त्यते नय एवादावमन्दं समुपेप्सुभिः । विनम्य पूर्वे सिंहोऽपि हन्ति हस्तिनमोजसा ॥ ३५५ ॥ स्वजातीयं विना वैरी न जय्यः स्यात्कदाचन । विना वज्रमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ३५६ ॥ युक्त्या परोक्षं बाघेत विपक्षक्षपणक्षमः । शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ३५७ ॥ दुर्गदेशप्रविष्टोऽपि शूरोऽभ्येति पराभवम् । गाढपङ्कनिमनाङ्गो मातङ्गोऽप्यवसीदति ॥ ३५८॥ नये१ ज्वालामालिनमग्निम्. २ तृणसमूहे. ३ शत्रुवर्गीयोन्मूलन
सुभाषितरत्नभाण्डागारम्
नोपेक्षितव्यो विद्वद्भिः शत्रुरल्पोऽप्यवज्ञया । वहिरल्पोऽपि संवृद्धः कुरुते भस्मसाद्वनम् ॥ ३९५ ॥ कौर्म संकोच - मास्थाय प्रहारानपि मर्षयेत् । प्राप्ते काले च मतिमानुत्तिष्ठेत्कृष्णसर्पवत् ॥ ३१६ ॥ स्वाम्यमात्यश्च राज्यं च
I
दुर्गे सुहृत् । एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ ३१७ ॥ संधिविग्रहयानानि संस्थितिः संश्रयस्तथा । द्वैधीभावश्च भूपानां षड्गुणाः परिकीर्तिताः ॥ ३१८ ॥ उत्साहस्य प्रभोर्मन्त्रस्यैवं शक्तित्रयं मतम् । आत्मनः सुहृदश्चैव तन्मित्रस्योदयास्त्रयः ॥ ३९९ ॥ सामदाने भेददण्डावित्युपायचतुष्टयम् । हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३२० ॥ क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म व्यवस्थितम् । तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्महा भवेत् ॥ ३२१ ॥ रक्षाधिकारादीशत्वाद्दूतानुग्रहकारणात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ ३२२ ॥ राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृकू न तस्याज्ञामतिक्रम्य संतिष्ठेरन्निमाः प्रजाः ॥ ३२३ ॥ राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः । व्यवहार - स्ततो ज्ञेयः शान्तितो राजशासनम् ॥ ३२४ ॥ नित्यार्यपृथिवीपालैश्चारित्रविधयः कृताः । चारित्रेभ्यस्ततः प्राहुर्गरीयो राजशासनम् ॥ ३२५ ॥ पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । जये भवति संदेहः प्रधानपुरुषक्षयः ॥ ३२६ ॥ अभिभूतोऽप्यवज्ञातो यो राज्ञां द्वारि तिष्ठति । स तु राज्ञां श्रियं भुङ्क्ते नाभिमानी कदाचन ॥ ३२७ ॥ अन्तःपुरधनाध्यक्षैर्वैरिभूते निराकृते संसर्गे न ब्रजेल्लोके बिना पार्थिवशासनात् ॥ ३२८ ॥ जृम्भां निष्ठीवनं क्रौर्य कोपं पर्यङ्ककां श्रमम् । भ्रुकुटिं वातमुद्रां च तत्समीपे विवर्जयेत् ॥ ३२९ ॥ राज्ञस्तु दर्शनं कुर्याज्ज्ञात्वावसरसौष्ठवम् । गुणादिख्यापनात्पूर्वमुपनीतो महाशयैः ॥ ३३० ॥ दर्शनं नाधमद्वारा राज्ञः कार्ये विपश्चिता । गरिष्ठोऽप्यति नीचः स्यादुप | नीतो लघुर्भवेत् ॥ ३३९ ॥ शत्रोरत्यन्तमित्रं यत्तेन मैत्रीं विवर्जयेत् । अर्दयेत्तद्विरोधेन प्रतिष्ठाघातकारिणा ॥ ३३२ ॥ यत्रात्मीयो जनो नास्ति भेदस्तत्र न विद्यते । कुठारैर्दण्डनिर्मुक्तैर्भिद्यन्ते तरवः कथम् ॥ ३३३ ॥ एतदर्थं कुलीनानां नृपाः कुर्वन्ति संग्रहम् । आदिमध्यावसानेषु न ते यास्यन्ति विक्रियाम् ॥ ३३४ ॥ सर्व एव जनः शूरो ह्यनासादितसंगरः । अदृष्टपरसामर्थ्यः सदर्पः को भवेन्नहि ॥ ३३५ ॥ रुष्टोऽपि राजा यद्दद्यान्न तत्तुष्ट | वणिग्जनः । अतो भूमिपतिः सेव्यस्त्याज्यो दूरतरेण सः । समर्थः
।