________________
८८
सुभाषितरत्नभाण्डागारम्
रक्ष्यमाणापि यत्नेनान्तविरागिणी । असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ॥ ८ ॥ पात्रेमपात्रीकुरुते दहति गुणं स्माशु नाशयति । अमले मैलं नियच्छति दीप - ज्वालेव खलमैत्री ॥ ९ ॥ दुर्जनजनसंसर्गात्सज्जनपुरुषोऽत्र दोषमायाति । रावणकृतापराधाज्जलधेरपि बन्धनं प्राप्तम् ॥ १० ॥ संगतिं स्वविपरीतगुणैस्त्वं मा कृथाः खलु सखे समयेऽस्मिन् । पश्य पूर्वमपि कृष्णरूपतामैर्जुनोऽपि समवाप निश्चितम् ॥ ११ ॥ दुर्वृत्तसंगतिरनर्थपरम्पराया हेतुः सतां भवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ १२ ॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते कारण्डकाकबककोक कुलं प्रविष्टः। मूकोऽयमित्युपहसन्ति लुनन्ति पक्षान्नीचाश्रयो हि महतामपमानहेतुः ॥ १३ ॥
-
स्नेहवचनम्
संखि साहजिकं प्रेम दूरादपि विराजते । चकोरीनयनर्द्वन्द्वमानन्दयति चन्द्रमाः ॥ १ ॥ वेन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः क्वाभ्राः सन्ति मयूरपङ्किरमला कालिः क्क वा मालती । हंसानां च कुलं क्क दूरविषये क्वास्ते सरो मानसं यो यस्याभिमतः स तस्य निकटे दूरेऽपि सन्वल्लभः ॥ २
सुमित्रप्रशंसा
1
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी । अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ॥ १ ॥ यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः। मित्रेण सह यो भुङ्क्ते तँतो नास्तीह पुण्यवान् ॥ २ ॥ शुचित्वं त्यागिता शौर्य सामान्यं सुखदुःखयोः । दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ॥ ३॥ अन्यथैव हि सौहार्द भवेत्स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठयोपहतचेतसः ॥ ४ ॥ उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ५ ॥ स बन्धुर्यो विपन्नानामापदुद्धरणे क्षमः । नतु भीतपरित्राणवस्तूपालम्भपण्डितः ॥ ६ ॥ औरसं कृतसंबन्धं तथा वंशक्रमागतम् । रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधम् ॥ ७ ॥ याचते कार्यकाले यः स किं भृत्यः स किं सुहृत् । अकार्यकार्यकर्ता यस्त्वना दिष्टो
१ अयोग्यम् २ सूत्रम् ; पक्षे, विनयादिः ३ तैलम्; पक्षे,प्रीतिः ४ मषीम् ; पक्षे, - दोषम् ५ मध्यमपाण्डवः पक्षे, -शुक्रवर्णः ६ मिथो भाषणम् ७ तस्मात्पुरुषात् ८ निर्मलचित्तत्वम्. ९ दानशीलत्वम्. १० समानस्य भावः सामान्यम्; समत्वमित्यर्थः ११ सरलत्वम्. १२ प्रीतिः.
[२ प्रकरणम्
ऽप्यसौ सुहृत् ॥ ८ ॥ तदेवास्य परं मित्रं यत्र संक्रामति द्वयम् । दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ ९ ॥ व्याधितस्यार्थहीनस्य देशान्तरगतस्य च । नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥ १० ॥ दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा । यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥ ११ ॥ स्वाभाविकं तु यन्मित्रं भाग्येनैवाभिजायते । तैदकृत्रिमसौहार्दमापत्स्वपि न मुञ्चति ॥ १२ ॥ न मातरि न दारेषु न सोदर्ये न चात्मनि । विश्वासस्तादृशः पुंसां यादृमित्रे स्वभावजे ॥ १३ ॥ शोकाराति भयत्राणं प्रीतिविश्रम्भभाजनम् । केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४ ॥ उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् । विभावयन् समृद्धीनां फलं सुहृदनुग्रहम् ॥ १५ ॥ नहि बुद्धिगुणेनैव सुहृदामर्थ| दर्शनम् । कार्यसिद्धिपथः सूक्ष्मः स्नेनाप्युपलभ्यते ॥ १६ ॥ प्राणैरपि हिता वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधानमेतन्मैत्रीमहाव्रतम् ॥ १७ ॥ पापान्निवारयति योजयते हिताय गुह्यानि गूहति गुणान्प्रकटीकरोति । आपगतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १८ ॥ मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवेन्मित्रेण तद्दुर्लभम् ।. ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुलास्ते सर्वत्र मिलन्ति तत्त्वनिकष ग्रावा तु तेषां विपत् ॥ १९ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा र्कुशानौ हुतः । गन्तुं पावकसुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ २० ॥
कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ १ ॥ रहस्यभेदो यांच्या च नैष्ठुये चलचित्तता । क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम् ॥ २ ॥
संसार:
संसार तव निःसार पैदेवी न 'देवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥ १ ॥ संसारविषवृक्षस्य द्वेफले मृतोपमे । काव्यामृतरसास्वाद आलापः सज्जनैः
१ अकपटमित्रता. २ शत्रुः २विश्वासः ४ सुहृत्स्वनुग्रहः प्रसादस्तम्. ५ प्रीते रसायनमिव रसायनम्. प्रीतिवर्धकमित्यर्थः. ६ अग्नौ ७ मित्रविपत्तिम् ८ गुप्तप्रकाशनम्. ९ प्रार्थनम् . १० मार्गः: ११ अतिदूरा. १२ मध्ये.