________________
८४
सुभाषितरत्नभाण्डागारम्
।
पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः ॥ २ ॥ यः स्वभावो हि यस्यास्ते स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम् ॥ ३ ॥ परोपदेशकुशला दृश्यन्ते बहवो जनाः स्वभावमतिवर्तन्तः सहस्रेष्वपि दुर्लभाः ॥ ४ ॥ किं कुलेन विशालेन शीलमेवात्र कारणम् । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा । यौवने सदलंकाराः शोभां बिभ्रति सुभ्रुवः ॥ ६ ॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधाः ॥ ७ ॥ वृत्तं यत्नेन संरक्षेद्वित्तमायाति याति च । अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥ ८ ॥ यथा हि मलिनैर्वस्त्रैर्यत्र तत्रो - पविश्यते । एवं चलितवृत्तस्तु वृत्तशेषं न रक्षति ॥ ९ ॥ नकुलं वृत्तहीनानां प्रमाणमिति मे मतिः । अन्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीनः कुलीनश्च मर्यादां यो न लङ्घयेत् । धर्मापेक्षी मृदुर्दान्तो न कुलीनशतैर्वरः ॥ ११ ॥ शीलं रक्षतु मेधावी प्राप्तुमिच्छुः सुखत्रयम् । प्रशंसां वित्तलाभं च प्रेत्य खर्गे च मोदनम् ॥१२॥ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ १३ ॥ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । असतां च निर्दयत्वं स्वभाव - सिद्धं त्रिषु त्रितयम् ॥ १४ ॥ वचो हि सत्यं परमं विभूषणं यथाङ्गनायाः कृशता कटौ तथा । द्विजस्य विद्यैव पुनस्तथा क्षमा शीलं हि सर्वस्य नरस्य भूषणम् ॥ १५ ॥ न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्य - यनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ १६ ॥ निम्नोन्नतं वक्ष्यति को जलानां विचित्रभावं मृगपक्षिणां च । माधुर्यमिक्षौ कैटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धम् ॥ १७ ॥ वरं विन्ध्याटव्यामनशनतृषार्तस्य मरणं वरं सर्पाकीर्णे तृणपिहितकूपे निपतनम् । वरं गर्तावर्ते गहनजलमध्ये विलयनं न शीलाद्विभ्रंशो भवतु कुलजस्य श्रुतवतः ॥ १८ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरुः स्वल्पशिलायते मृगपतेः संघः कुरंगायते । व्यालो माल्यगुणायते विषरसः पीयूँषवर्षांयते यस्याङ्गेऽखिल लोकवल्लभतमं शीलं समुन्मीलति ॥ १९ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वक्संयमो ज्ञानस्योपशमः कुलस्य विनयो वित्तस्य पात्रे
[२ प्रकरणम्
व्ययः । अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ २० ॥ काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके मूर्खः पण्डितसंगमे न रमते दासो न सिंहासने । कुस्त्री सज्जनसंगमे न रमते नीचं जनं सेवते या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥ २१ ॥ व्याघ्रः सेवति काननं सुगहनं सिंहो गुहां सेवते हंसः सेवति पद्मिनीं कुसुमितां गृध्रः श्मशानस्थलीम् । साधुः सेवति साधुमेव सततं नीचोऽपि नीचं जनं या यस्य प्रकृतिः स्वभावजनिता केनापि न त्यज्यते ॥ २२ ॥ पाण्डित्यस्य विभूषणं मधुरता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निर्व्याजता सर्वस्यास्य पुनस्तथैव जगतः शीलं परं भूषणम् ॥ २३ ॥
१ अतिक्रम्य वर्तते. २ नीचोच्चम्. ३ तीक्ष्णताम्. ४ कृत्रिम सरिदिवाचरति. ५ सर्पः. ६ माला. ७ अमृतम् ८ विजृम्भते. ९ सौज न्यम्. १० वाङ्नियमनम् . ११ शान्तिः.
वाग्वर्णनम्
तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमाः । स्वेषां परेषां विदुषां द्विषामविदुषामपि ॥ १ ॥ गौनाब्धेस्तु परं पारं नोपेयाय सरस्वती । अतो निमज्जनभयात्तुम्बीं वहतिवक्षसि ॥ २ ॥ प्रसन्नाः कान्तिहारिण्यो नाना श्लेषविचक्षणाः । भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ३ ॥ वर्णैः कंतिपयैरेव ग्रथितस्य 'स्वरैरिव । अनन्ता वाडययस्याहो गेयस्येव विचित्रता ॥ ४ ॥ बह्वपि स्वेच्छेया कामं प्रकीर्णमभिधीयते । अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ ५॥ 'वेदीयसीमपि धेनामनल्पगुण कल्पिताम् । प्रसारयन्ति कुशलाचित्रां वाचं पेंटीमिव ॥ ६ ॥ सर्वालंकारयुक्तापि न श्लिष्टो वनितेव सा । वाणी मैनोजातसुखं प्रौदनां न तनोति हि ॥ ७ ॥ या कर्षति निजयोगादन्तर्गतजीवनानि
१ निष्कपटत्वम्. २ सुखभावः ३ गानसमुद्रस्य ४ गायनसमुद्र
|
परपारं न प्राप. ५ इक्ष्वाकुफलम्. जलतरणार्थं तुम्ब्याः संग्रहं लोकाः कुर्वन्तीति प्रसिद्धम्. ६ प्रसन्नवदनाः; पक्षे,—उत्तानार्थाः. ७ कान्त्या शोभया मनोहारिण्यः; पक्षे, - भाषणगुणेन मनोहारिण्यः. ८ आलिङ्गनम् ; पक्षे, श्लेषः ९ परिमितैः १० निषादादिभिः. ११ स्वप्रतिभानुसारेण. १२ यथेष्टम् १३ असंगतम्. १४ दुर्वचः १५ अतिसुकुमाराक्षराम्; पक्षे, - लक्ष्णतराम्. १६ अर्थगुर्वीम् ; पक्षे, सान्द्राम्; कदलीदलकल्पामित्यर्थः १७ षादिभिः पक्षे तन्तुभिः १८ रचिताम् ; पक्ष - निर्मिताम् १९ शब्दादिविचित्राम् ; पक्षे, विचित्ररूपाम्. २९ शाटीमिव. २१ उपमादिभिः; पक्षे, कङ्कणादिभिः २२ षरहिता; पक्षे, -आलिङ्गनरहिता २३ मनः प्रति जातं यत्सुखं तत्; पक्षे, - कामहर्षम्- २४ चतुराणाम् पक्षे, -प्रकर्षेण विधिपूर्वकं विवाहितानाम् २५ हृद्गतानि जीवनानि; पक्षे, - उदकानि •