________________
सामान्यनिरासः
क. सामान्यस्वीकारे दोषः
जातिश्चेद् गेह एकोपि मालेत्युच्येत वृक्षवत् । मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥१५६॥
जातिश्चेदभ्युपगम्यते एको गेहो मालेत्युच्येत वृक्षवत् । यथा वृक्षत्वजातियोगादेको वृक्षो वृक्ष इत्युच्यते एवमेकोपि गेहो माला स्यात् । तथा गेहमालानां बहुत्वे तच्छदो मालेत्यनुगा' मिशब्दः कथं जाते 'र्मालायां अजातितो जात्यन्तरविरहात् । (१५६)
किञ्च (1)
मालादौ च महत्वादिरिष्टो यश्चौपचारिकः । मुख्याविशिष्टविज्ञानप्राह्यत्वान्नौपचारिकः ॥१५७॥
१६५
महती प्रासादमालेति कथं व्यपदेशः । महत्वं परिमाणं गुणः । तस्य मालायां नसत्वं (1) न हि प्रासादमाला किञ्चिदित्युक्तं । नापि संयोगलक्षणे प्रासादे महत्त्वं निर्गुणत्वा (तु) गुणानां । काष्ठादिषु द्रव्येषु प्रासादारम्भकेषु महत्त्वसत्त्वा -- वृक्षेषु कुसुमसम्भवाद् वनसंख्यालक्षणं कुसुमितमिति यथोच्यते । तथा प्रासादमालाबी महत्वादिरौपचारिको यश्चेष्टः स चायुक्तः काष्ठादिष्वपि तादृशस्य महत्त्वस्याभावात् ।
किञ्च (1) महान् पर्व्वत इति मुख्यमहत्त्वग्राहकज्ञानेनास्खल" द्वृत्तित्वादविशिष्टेन ज्ञानेन ग्राह्यत्वात् प्रासादमालामहत्वादिरौपचारिको न युक्तः ( 1 ) न हि माणवक इव सिंहबुद्धिर्महत्त्वबुद्धिश्च मालायां स्खलति । ( १५७ ) किञ्च ( 1 ) भिन्नविशेषणं मुख्यमभिन्नविशेषणञ्चामुख्यमिति यदुच्यते तदप्ययुक्तमित्याह (1)
अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि । पदार्थशब्दः कं हेतुमन्यं षट्कं समीक्षते ॥ १५८॥
मुख्याभिमतेष्वपि दण्ड्यादिष्वनन्यहेतुता भिन्नविशेषणनिमित्तरहितता तुल्या गौणेन सर्व्वत्र व्यपदेशो हि दण्डादेरपि सांवृतादि (२।१५४) त्युक्तेः । किञ्चा
' निःसामान्यानि सामान्यानीति वचनात् । २ अवयव्यभावाद्वनसंख्या । प्रत्यवयवेषु । अस्मन्मते । मुख्यविषयौ यौ शब्दप्रत्ययौ ताभ्यामविशिष्टो यः प्रत्ययस्तेन ग्राह्य एतावन्मात्रनिमित्तत्वान्मुख्यत्वव्यवस्थायाः । ६ सह मुख्येषु । • असत एव विशेषणत्वेनोपनयात् ।