________________
अथ संग्रहश्लोकाः।
संहितैकपदे नित्या नित्या धातूपसर्गयोः। .. नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते। तहदस्तु यदेकत्वम् विभाक्तिस्तत्र वर्तते ॥२॥ ऊर्ध्व मानं किलोन्मानं परिमाणंतु सर्वतः। आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या. तु सर्वतः ॥ ३ ॥ अविकारो द्रवं मूर्त प्राणिस्थं खांगमुच्यते। च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ ४॥ आकृतिग्रहणाज्जातिलिंगानां न च सर्वभाक् । सकृदाख्यातनिर्लाह्या गोत्रं च चरणैः सह ॥ ५ ॥ सत्वे निविशतेऽपैति पृथगजातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोऽसत्वप्रकृतिर्गुणः ॥६॥ इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपं । अदसस्तु विप्रकृष्टं तदिति पराक्षे विजानीयात् ॥ ७ ॥ नकारजावनुवारपञ्चमौ धुटि धातुषु । सकारजः शकारश्चे ट्टिवर्गस्तवर्गजः ॥ ८॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ॥ ९ ॥ धात्वर्थो बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनष्टयऽन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकमुदाहृतः ।। ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ १२ ॥