SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ५७७ अनुबन्धफलम्। उच्चारणेऽस्त्यवर्णाद्य आस्क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥ १॥ उदितः स्वरान्नोन्तश्चोरक्तादाविटो विकल्पनं । रुपान्त्ये डे परे हस्व ऋकारादविकल्पकः ॥२॥ लकारादङ्समायात्येः सिचि वृद्धिनिषेधकः । ऐस्क्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥ ३॥ औकार इडिकल्पार्थेऽनुस्वारोऽनिविशेषणे । लुकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥ ४ ॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः। गेनोभयपदी प्रोक्तो घश्व चजोः कगौ कृतौ ॥ ५॥ आत्मने गुणारोधे ङश्चो दिवादिगणो भवेत् । औ वृद्धौ वर्त्तमाने क्तः टः स्वादिष्ठयुकारकः ॥ ६॥ त्रिमगर्थो डकारः स्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ॥ ७ ॥ रुधादौ नागमे पो हि मो दामः संप्रदानके । यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥ ८॥ स्त्रीलिंगार्थे लकारो हि उत और्विति वो भवेत् । शः ऋयादिः क्यः शिति प्रोक्तः षाषितोऽङविशेषणे ॥१॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुबन्धः कथितो मया ॥ १०॥ इत्यनुबन्धफलम् । घुतादेरद्यतन्यां चाडात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥ १॥ ज्वलादिौँ भवेद्वृद्धिर्यजादेः संप्रसारणं । घटादिनां भवेद्वस्वो णौ परेऽजीघटत् सदा ॥ २ ॥ अद्यतन्यां पुषादित्वादपरस्मैपदे भवेत् । स्वादित्वाच्च क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy