________________
हैमशन्दानुशासनख। प्राच्या दिशो देशकालाभ्यां वा आगतः प्रागागतः। प्राच्यां दिशि देशकालयोर्वा वासः प्राग्वासः ॥ ११३ ॥ ऊर्ध्वाद्रिरिष्टातावुपश्चास्य।७।२।११४।
- ऊर्द्धादिग्देशकालार्थात्सिङसिङयन्तादेतौ स्याताम्। उपश्चोर्द्धस्य। उपरि । उपरिष्टाद्रम्यं आगतो वासो वा ॥ ११४ ॥ पूर्वावराधरेभ्योऽसऽस्तातौ पुरवध
श्चैषाम् ।७।२।११५ । एभ्यो दिग्देशकालार्थेभ्यः सिङसिङयन्तेभ्योऽसऽस्ताच्च स्यात् । एषां च यथासङ्ख्यं पुर् अव अध च । पुरः । अवः। अधः। पुरस्तात् । अवस्तात् । अधस्तात् रम्यमागतो वासो वा ॥ ११५॥
परावरात्स्तात् । ७।२।११६ ।
आभ्यां दिगाद्याभ्यां प्रथमाधन्ताभ्यां खार्थे स्तात् स्यात् । परस्तात् । अवरस्तात् रम्यमागतो वासो वा ॥ ११६ ॥ दक्षिणोत्तराच्चातस् । ७।२।११७।
आभ्यां परावराभ्यां च दिगाद्याभ्यां प्रथमाद्यन्ताभ्यां स्वार्थे । ऽतस्स्यात् । दक्षिणतः । उत्तरतः । परतः । अवरतः रम्यमागतो वासो वा ॥ ११७॥
अधरापराच्चात् । ७।२।११८ ।
आभ्यां दक्षिणोत्तराभ्यां च दिगाद्यर्थाभ्यां प्रथमायन्ताभ्यामात् स्यात् । अधरात् । पश्चात् । दक्षिणात् । उत्तरात् रम्यमागतो वासो वा ॥ ११८॥ वा दक्षिणात् प्रथमासप्तम्या आः।७२।११९॥