SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः । द्विर्द्धमधौ वा । ७ । २ । १०७ । आभ्यां प्रकारार्थाभ्यां विचाले च गम्ये एतौ वा स्याताम् । द्वैधम् । धम् । द्वेधा । त्रेधा । द्विधा । त्रिधा भुंक्ते । एकराशि द्वौ करोति द्वैधम् । त्रैधम् । देवा । त्रेधा । द्विधा । त्रिधा करोति ॥ १०७ ॥ तद्वति धण । ७ । २ । १०८ । ४९१ द्वित्रिभ्यां प्रकारवति विचालवति चार्थे धण् स्यात् । द्वैधानि । वैधानि ॥ १०८ ॥ वारे कृत्वस् । ७ । २ । १०९ । वारवृतेः सङ्ख्यार्थाद्वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुंक्ते ॥ १०९ ॥ द्वित्रिचतुरः सुच । ७ । २ । ११० । एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः । त्रिः । चतुः भुंक्ते ॥ एकात्सकृच्चास्य । ७ । २ । १११ । अस्माद्वारार्थात्तदतिसुच् स्यात् । सकृच्चाऽस्य । सकृहुंक्ते ॥ १११॥ बहोर्द्धासन्ने । ७ । २ । ११२ । बहोः सङ्ख्यार्थाददूरवारार्थात्तद्वति धा स्यात् । बहुधा भुंक्ते॥११२॥ दिक्शब्दाद्दिग्देशकालेषु प्रथमापञ्चमी सप्तम्याः । ७ । २ । ११३ । दिशि दृष्टाद्दिगाद्यर्थात्सिङसिङन्तात् स्वार्थे धा स्यात् । प्राची दिग् रम्या प्राग्रम्यम् । प्राग देशः कालो वा रम्यः प्रागरम्यम् ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy