________________
... स्वोपज्ञलघुवृत्तिः।
४८९ भवन्तः । स आयुष्मान् । तत आयुष्मान् । सदीर्घायुः। ततो दीर्घायुः। तं देवानांप्रियम् । ततो देवानांप्रियम् ॥ ९१ ॥
. त्रप्च।७।२।९२ । भवत्वाद्यैरेकार्थात्किमद्वयादिसर्वाद्यवैपुल्यबहोः सर्वस्याद्यन्तात्रप च वा स्यात् । स भवान् । तत्र भवान् । ततो भवान् । तस्मिन् भवति। तत्र भवति । ततो भवति । आयुष्मदादिनाप्येवम् ॥९२ ॥
ककुत्रात्रेह । ७।२।९३ । एते त्रबन्ता निपात्याः ॥९३॥
सप्तम्याः । ७।२।९४ । - सप्तम्यन्तात्किमयादिसर्वाधवैपुल्यबहोः त्रप् स्यात् । कुत्र । सर्वत्र । तत्र । बहुत्र ॥ ९४ ॥ किंयत्तत्सर्वैकान्यात्काले दा । ७।२।९५। ___ एभ्यो यतेभ्यः कालेऽर्थे दा स्यात् । कदा। यदा। तदा । सर्वदा । एकदा । अन्यदा ॥ ९५॥ सदाऽधुनेदानींतदानीमेतर्हि ।७।२।९६॥
एते कालेऽर्थे निपात्याः ॥ ९६ ॥ सद्योऽद्यपरेद्यव्यहि। ७।२।९७। एतेऽह्नि काले निपात्याः ॥९७॥ पूर्वापराधरोत्तरान्यान्यतरेतरादे
धुस् ।७।२। ९८। एभ्यो ड्यन्तेभ्योऽह्नि कालेऽर्थे एयुस् स्यात् । पूर्वेद्युः । अपरेगुः । अधरेशुः । उत्तरेयुः । अन्येयुः । अन्यतरेयुः । इतरेषुः ॥ १८॥