SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलधुधृत्तिः। ४८७ जीर्णकः शालि। गोमूत्रकमाच्छादनम् । अवदातिका सुरा। सुरकोऽहिः। यवको ब्रीहिः । कृष्णकास्तिलाः ॥७७॥ भूतपूर्वेप्चरट् ।७।२।७८ । भूतपूर्वार्थात्स्वार्थे प्वरद स्यात् । आद्यचरी ॥ ७॥ गोष्ठादीनन । ७।२।७९। भूतपूर्वे स्यात् । गोष्ठीनो देशः ॥ ७९ ॥ षष्ट्या रुप्यप्चरट् । ७।२।८० । भूतपूर्वेऽर्थे एतौ स्याताम् । मैत्ररूप्यो गौः। मैत्रचरः ॥ ८०॥ . व्याश्रये तसुः।७।२।८१ । षष्ठयन्तानानापक्षाश्रये गम्ये तसुः स्यात् । देवा अर्जुनतो अभवन् । रविः कर्णतोऽभवत् ॥ ८१॥ रोगात्प्रतीकारे ।७।२।८२। षष्ठ्यन्ताद्रोगार्थादपनयने तसुः स्यात् । प्रवाहिकातः कुरुः ॥८२॥ पर्यभेः सर्वोभये ।७।२।८३। आभ्यां यथासङ्ख्यं सर्योभयार्थाभ्यां तसुः स्यात् । परितः। अभितः। सर्वोभय इति किम् । वृक्षं परि अभि वा ॥ ८३ ॥ आद्यादिभ्यः । ७।२।८४ । एभ्यः सम्भवत्स्याद्यन्तेभ्यस्तसुः स्यात् । आदितः। मध्यतः ॥४॥ क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीया याः। ७।२।८५।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy