SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः। ४८३ असन्तात्तपसादेश्व मत्वर्थे विन् स्यात् । यशस्वी । यशस्वान् । तपस्वी । मायावी । मायावान्। मेधावी । स्रग्वी ॥४७॥ आमयादीर्घश्च । ७।२।४८ । अस्मान्मत्वर्थे विन् स्यात् । दीर्घश्चास्य । आमयावी । आमयवान् ॥ ४८॥ स्वान्मिन्नीशे।७।२।४९। स्वान्मत्वर्थे ईशे मिन स्यात् । दीर्घश्चास्य । स्वामी। स्ववानन्यः॥ गोः। ७।२।५०। गोर्मत्वर्थे मिन् स्यात् । गोमी । गोमान् ॥ ५० ॥ ऊर्जा विनवलावस्चान्तः।७।२।५१। ऊर्जा मत्वर्थे विनवलौ स्याताम् । तद्योगे वो|ऽसन्तः । ऊर्जस्वी । ऊर्जस्वलः । ऊर्वान ॥ ५१॥ तमिस्रार्णवज्योत्स्नाः ।७।२।५२। एते मत्वर्थे निपात्याः। तमिस्रा रात्रिः । तमिस्राणि गुहामुखानि । तमस्वान् । अर्णवः समुद्रः । ज्योत्स्ना चन्द्रप्रभा ॥ ५२ ॥ गुणादिभ्यो यः । ७।२।५३। एभ्यो मत्वर्थे यः स्यात् । गुण्योना। हिम्योगिरिः। हिमवान् ॥५३॥ रूपात्प्रशस्ताहतात् । ७।२।५४। प्रशस्तोपाधेराहतोपाधेश्च रूपान्मत्वर्थे यः स्यात् । रूप्यो गौः। रूप्यं कार्षापणम् । रूपवानन्यः ॥ ५४॥ पूर्णमासोऽण । ७।२।५५ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy