SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः ४२३ टइति तृतीयान्तात्तुल्यदिश्येऽर्थे यथोक्तं प्रत्ययः स्यात् । सौदामनी विद्युत् ॥ २१० ॥ तसिः । ६ । ३ । २११ । टान्तातुल्यदिके तसिः स्यात् । सुदामतो विद्युत् ॥ २१९ ॥ यश्चोरसः । ६ । ३ । २१२ । अतष्टान्तात्तुल्यदिके यतसी स्याताम् । उरस्यः । उरस्तः ॥ २१२॥ सेर्निवासादस्य । ६ । ३ । २१३ । सेरिति प्रथमान्तान्निवासार्थादस्येति षष्ठ्यर्थे यथोक्तं प्रत्ययः स्यात् । स्स्रौघ्नः । नादेयः ॥ २१३ ॥ आभिजनात् । ६ । ३ । २१४ । आभिजनाः पूर्वबान्धवाः तन्निवासार्थात् स्यन्तात् षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । स्रौघ्नः । राष्ट्रियः ॥ २१४ ॥ शण्डिकादेर्ण्यः । ६ । ३ । २१५ । अस्मात्स्यन्तादाभिजननिवासार्थादस्यत्यर्थे ण्यः स्यात् । शाण्डिक्यः। कौचवार्यः ॥ २१५॥ सिन्ध्वादेर । ६ । ३ । २१६ । अस्मात्स्यन्तादाभिजननिवासार्थात् षष्ठयर्थेऽञ् स्यात् । सैन्धवः । वार्णवः ॥ २१६ ॥ सलातुरादीयण । ६ । ३ ।२१७ । अस्मात् स्यन्तादाभिजननिवासार्थात् षष्ठ्यर्थे ईयण स्यात् । सालातुरीयः पाणिनिः ॥ २१७ ॥ तूदीवत्या एयण । ६ । ३ । २१८ ।
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy