SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ खोपलाता एते क्यबन्ता संज्ञायां निपात्यन्ते । कुप्यं धनम् । मिद्यम् । उध्यः नदः। सिध्यः । तिष्यः। पुष्यः । युग्यं वाहनम् । आज्यं घृतम् । सूर्योरविः ॥ ३९॥ दृवृगस्तुजुषेतिशासः।५।१४०। एभ्यः क्यए स्यात् । आदृत्यः । प्रावृत्यः । अवश्यस्तुत्यः । जुष्यः। इत्यः । शिष्यः ॥ ४०॥ ऋदुपान्त्यादकृपिचूदृचः।५।१।४१। ऋदुपान्त्याद्धातोः कृपितिऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपिटच इति किम् । कल्प्यम् । चर्त्यम् । अय॑म् ॥ ४१ ॥ कृवृषिमृजिशंसिगुहिदुहिजपोवा।५।१।४२। एभ्यः क्यप् वा स्यात् । कृत्यम् । कार्यम्। वृष्यम् । वर्ण्यम् । मृज्यम्। मार्यम् । शस्यम् । शंस्यम्। गुह्यम् । गोह्यम् । दुह्यम् । दोह्यम् । जप्यम्। जाप्यम् ॥ ४२॥ जिविपून्योहलिमुञ्जकल्के ।५।१।४३। जेर्विपूर्वाभ्यां च पूनीभ्यां यथासङ्ख्यं हलिमुञ्जकल्केषु कर्मसु क्यप् स्यात् । जित्यो हलिः । विपूयो मुञ्जः । विनीयः कल्कः । हलिमुञ्जकल्क इति किम् । जेयम् । विपव्यम् । विनेयम् ॥ ४३॥ पदास्वैरिबाह्यापक्ष्ये ग्रहः।५।१।४४ । एष्वर्थेषु ग्रहेः क्यप् स्यात् । प्रगृह्यं पदम् । गृह्याः परतन्त्राः। ग्रामगृह्या, बाह्येत्यर्थः । गुणगृह्या गुणपक्ष्या ॥ ४४ ॥ भृगोऽसंज्ञायाम् ।५।१।४५।... भृगोऽसंज्ञायां क्यप् स्यात् । भृत्यः पोष्यः । असंज्ञायामिति किम्। मार्या पत्नी ॥४५॥
SR No.002413
Book TitleSiddhahemchandrabhidhan Swopagna Shabdanushasan Laghuvrutti
Original Sutra AuthorHemchandracharya
Author
PublisherYashovijay Jain Pathshala
Publication Year1905
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy