________________
हेमशब्दानुशासनस्य
आत्परोयोऽनुनासिकस्तदन्तस्य यङन्तस्य द्वित्वे पूर्वस्य मुरन्तः स्यात् । बम्भण्यते । अत इति किम् । तेतिम्यते । अनुनासिकस्येति किम् । पापच्यते ॥ ५१ ॥
जपजभदहदशभञ्जपशः । ४।१।५२
एषां यङन्तानां द्वित्वं पूर्वस्य मुरन्तः स्यात् । जञ्जप्यते । जञ्ज - म्यते । दन्दह्यते । दन्दश्यते । बम्भज्यते । पम्पश्यते ॥ ५२ ॥ चरफलाम् । ४ । १ । ५३ ।
एषां यङन्तानां द्वित्वे पूर्वस्य मुरन्तः स्यात् । चञ्चर्यते । पम्फुल्यते ॥ ५३ ॥
तिचोपान्त्यातोऽनोदुः । ४ । १।५४।
यङन्तानां चरफलां तादौ च प्रत्यये उपान्त्यस्यात उः स्यान्न'च तस्योत् । चञ्चूर्यते । पम्फुल्यते । चूर्त्तिः । प्रफुल्लिः । अत इति किम् । चार्यते । फम्फाल्यते । अनादिति किम् । चंचूर्त्तिः । पम्फुलिः ॥ ५४ ॥ ऋमतां रीः । ४ । १ । ५५ ।
ऋमतां यङन्तानां द्वित्वं पूर्वस्य रीरन्तः स्यात् । नरीनृत्यते ||१५||
रिरौ च लुपि । ४।१।५६ ।
ऋतां ङोलुप द्वित्वे पूर्वस्य रिरौ रीश्चान्तः स्यात् । चरिकर्त्ति । चर्कति । चरीकर्त्ति ॥ ५६ ॥
निजां शित्येत् । ४ । १ । ५७ ।
>
निजविजिविषां शिति द्वित्वे पूर्वस्यैत्स्यात् । नेनेति । वेवेति । वेष्ट | शितीति किम् । निनेज ॥ ५७ ॥
पृभृमाहाङामिः । ४ । १ । ५८ ।