________________
स्वोपशलघुवृत्तिः। अमोचीत् । अम्लुचत् । अम्लोचीत् । अग्रुचत् । अप्रोचीत् । अग्लुचन् । अग्लोचीत् अग्लुञ्चत् । अग्लुञ्चीत्। अजरत् । अजारीत् ॥६५॥
बिच ते पदस्तलुक्च ।३।४।६६ ।
पद्यतः कर्त्तर्यद्यतन्यास्ते परे अिच् स्यानिमित्ततस्य च लुक् । उदपादि । त इति किम् । उदपत्साताम् ।। ६६ ॥ दीपजनबुधिपूरितायिप्यायोवा।३।४।६७॥
एभ्यः कर्त्तर्यद्यतन्यास्ते परे त्रिज्वा स्यात्तलुक्च । अदीपि । अदीपिष्ट । अजनि । अजनिष्ट । अबोधि । अयुद्ध । अपूरि । अयूरिष्ट । अतायि । अतायिष्ट । अप्यायि । अष्यायिष्ट ॥ ६७ ॥
- भावकर्मणोः ।३।४।६८।
सर्वस्माद्धातो वकर्मविहितेऽद्यतन्यास्ते पिच स्यात्तलक्च । आसि त्वया । अकारि कटः ॥ ६८॥ स्वरग्रहदशहन्भ्यः स्यसिजाशीःस्वस्तन्यां
मिड् वा । ३।४।६९। स्वरान्ताद् ग्रहादेश्च विहितासु मावकर्मजासु स्यसिजाशीःस्वस्त. नीषु भिड् वा स्यात् । दायिष्यते । दास्यते । अदायिषाताम् । अदिपाताम् । दायिषीष्ट । दासीष्ट। दायिता। दाता। ग्राहिष्यते । ग्रहीष्यते। अग्राहिषाताम् । अग्रहीषाताम् ।ग्राहिषीष्ट । ग्रहीषीष्ट । ग्राहिता। ग्रहीता। दर्शिष्यते । द्रक्ष्यते । अदर्शिषाताम् । अदृक्षाताम | दर्शिषीष्ट । दृक्षीष्ट । दर्शिता । द्रष्टा । घानिष्यते । हनिष्यते । अघानिपालाम् । अवधिषा. ताम् । घानिषीष्ट । वधिषीष्ट । घानिता । हन्ता ॥ ६९ ॥
क्यः शिति । ३।४।७० । ..