________________
२२६
योगशास्त्रे प्रतिपद्यन्ते तथैव संसारी विविधकर्मोपाधिः श्रोत्रियादितां प्रतिपद्यते, न पुनरस्य तथाविधं परमार्थतो रूपमस्ति ॥ ६५ ॥ तथान याति कतमां योनि कतमां वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ ६६ ॥
योनिमेकेन्द्रियादिलक्षणां कतमां न याति ? सर्वामपि यातीत्यर्थः, कतमां वा योनिं न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः, संसारी जन्तुः। कुतो हेतोरित्याह-कर्मसम्बन्धात् ; अवक्रयकुटीमिव भाटककुटीमिव । यथा हि तथाविधोपयोगहेतो. गुहमेधी एका कुटौं प्रविशति, उपयोगाभावे तां मुञ्चति ; उपयोगान्तराच्च कुव्यन्तरमादत्ते, परिहरति च ; एवं नियतकर्मोपभोगहेतोरेका योनि जन्तुः प्रविशति, तद्योग्यकर्मोपभोगानन्तरं तु तां विमुञ्चति, योन्यन्तरं तूपादत्ते पुनश्च परिहरति, न पुननियतः कोऽपि योनिपरिग्रहोऽस्तीति ॥ ६६ ॥ तथासमस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिमिः ॥ ६७ ॥ . ... इहाकाशं विविध-लोकाकाशमलोकाकाशं च । यत्र धर्माधर्मजीवपुहलानां सम्भवोऽस्ति तल्लोकाकाशम्, इतरत्त्वलोकाकाशम्, यदाह ;