________________
चतुर्थः प्रकाशः ।
८२५ मुनीनामप्यपापानामसिधारोपमैत्रतः । न शक्यते कृतान्तस्य प्रतिकर्तु कदाचन ॥ ८ ॥ अशरण्यमहो ! विश्खमराजकमनायकम् । यदेतदप्रतीकारं अस्यते यमरक्षसा ॥ १० ॥ योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति ।
शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते ॥ ११ ॥ एवं विश्वमनाकुल: कवलयन्नाब्रह्म कोटावधि
श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभौमो यमः। नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलभूष्णुता
मालम्बेत शरण्यवर्जितमिदं हा! हा! जगत् ताम्यति ॥१२॥ अशरणभावना ॥ ६४ ॥ अथ संसारभावनां श्लोकत्रयेणाहश्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः । संसारनाव्ये नटवत् संसारी हन्त ! चेष्टते ॥ ६५ ॥ :
संसारो नानायोनिषु सच्चरणं स एव नाट्यं नटकर्म तत्र : नटवत् नर्तकवत् संसारी जन्तुश्चेष्टते विविधां चेष्टां करोतीति । हन्तेत्यामन्त्रणे। केनोल्लेखेन चेष्टते ? श्रोत्रियो वेदपारगः स एव श्वपचो भवति, स्वामी प्रभुः स एव पत्तिर्भवति, ब्रह्मा प्रजापतिः स एव कमिर्भवति । यथेष्टं च विध्यनुवादी, तेन खपचः श्रोत्रियः, पत्तिः स्वामी, कमिब्रह्मा, इत्यपि दृष्टव्यम् । यथा हि नाव्ये विविधवर्णकादियोगाद् भूमिकान्तरं नटाः
१०४