________________
हतीयः प्रकाशः।
७१८
ततश्च सेवावसरे मन्त्रिण: समुपयुषः । प्रणामं कुर्वतो राजा कोपात् तस्थौ परामखः ॥ ५२ ॥ तद्भावजोऽथ वेश्मैत्यामात्यः श्रीयकमब्रवीत् । राज्ञोऽस्मि ज्ञापित: केनाप्यभक्तो विहिषत्रिव ॥ ५३ ॥ असावकस्मादस्माकं कुलक्षय उपस्थितः । रक्ष्यते, वत्स! कुरुषे यद्यादेशमिमं मम ॥ ५४ ॥ नमयामि यदा राजे शिरश्छिन्द्यास्तदासिना। अभक्त: स्वामिनो वध्यः पितापोति वदेस्ततः ॥ ५५ ॥ जरसापि यियामो मय्येवं याते परासुताम् । त्वं मत्कुलग्रहस्तम्भो नन्दिष्यसि चिरं ततः ॥ ५६ ॥ श्रीयकोऽपि रुदनेवमवदद गहुदस्वरम् । तात ! घोरमिदं कर्म खपचोऽपि करोति किम् ? ॥ ५७ ॥ अमात्योऽप्यब्रवीदेवमेवं कुर्वन् विचारणाम् । मनोरथान् पूरयसे वैरिणामेव केवलम् ॥ ५८ ॥ राजा यम इवोद्दण्डः सकुटुम्ब न हन्ति माम् । यावत्, तावम्म मैकस्य क्षयाद रक्ष कुटुम्बकम् ॥ ५ ॥ मुखे विषं तालपुटं न्यस्य नस्यामि भूपतिम् । शिरः परासोर्मे छिन्दयाः पितहत्या न ते ततः ॥ ६ ॥ पित्रैवं बोधितस्तत् स प्रतिपेदे चकार च।। शुभोदर्काय धीमन्तः कुर्वन्त्यापासदारुणम् ॥ ६१ ॥ भवता किमिदं वत्स ! विदधे कर्म दुष्करम् । ससंभ्रममिति प्रोनो नृपेण श्रीयकोऽवदत् ॥ ६२ ॥