________________
टतीयः प्रकाश: ।
७१७
इदं यद्यस्ति सत्यं तत् प्रातर्वीक्षामहे स्वयम् । इत्युक्तो मन्त्रिणा राजा तत्तथा प्रत्यपद्यत ॥ ३१ ॥ दत्त्वा शिक्षां चरः सायं प्रेषितस्तत्र मन्त्रिणा । शरस्तम्बनिलौनोऽस्थात् पक्षीवानुपलक्षितः ॥ ३२ ॥ तदा वररुचिर्गत्वा छन्नं मन्दाकिनीजले । दीनाराष्टोत्तरशतग्रन्थिं न्यस्य ययौ रहे ॥ ३३ ॥ तज्जीवितमिवादाय दीनारग्रन्थिमेष तु। . चर: समर्पयामास प्रच्छन्नं वरमन्त्रिणे ॥ ३४ ॥ अंथ गुप्तात्तदीनारग्रन्थिमन्त्री निशात्यये। ययो राज्ञा समं गङ्गामागाद वररुचिस्तदा ॥ ३५ ॥
द्रष्टु कामं नृपं दृष्ट्वोत्कृष्टमानी सविस्तरम् । · स्तोतुं प्रववृते गङ्गां मूढो वररुचिस्ततः ॥ ३६ ॥ स्तुत्यन्तेऽचालयद् यन्त्रं यदा वररुचिः पदा। दीनारग्रन्थिरुत्पत्य नापतत् पाणि कोटरे ॥ ३७॥ द्रव्यं सोऽन्वेषयामास पाणिना तज्जले ततः। तस्थावपश्यंस्तुणीको धूर्तो पृष्टो हि मौनभाक् ॥ ३८ ॥ इत्यूचे च महामात्यः किं ते दत्ते न जाह्नवी । न्यासोक्तमपि द्रव्यमन्वेषयसि यट् मुहुः ? ॥ ३८ ॥ उपलक्ष्य रहाणेदं निजद्रव्यमिति ब्रुवन् । सोऽर्पयामास दोनारग्रन्थिं वररुचे: करे ॥ ४० ॥
(१) घड -ववश्यं बू-।