SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे तथा प्रहणोद्वाहणमवक्ततिविचारणार्थावधारणाद्येषु । बुद्यङ्गविधिविकल्पेष्वनन्तपर्यायवडेषु ॥ ३ ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ? ॥४॥१३॥ मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानी समानप्रतिपक्षभूतं मार्दवं मानजयोपायमुपदिशति,उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दवसरित्प्लवैः ॥ १४ ॥ मान एव द्रुर्दुम उन्नतिविशेषधारित्वेन। मानगुमयोः साधर्म्यमाह,-उत्सर्पयध्वं नयन् दोषा एव प्रसरणशीलत्वेन शाखा दोषशाखास्ताः, गुणा एव मूलानि गुणमूलानि तान्यधो नयन् न्यकुर्वन् । कैरुन्मूलनीयः ? मार्दवसरित्प्लवैर्मादेवमेव सततवाहितया सरित् तस्याः प्रवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा गुणमूलानि तिरोदधाति, दोषशाखाश्च विस्तारयति । तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रवाहेण समूलमुन्मूलनीय इत्यर्थः । अत्रान्तरलोकाःमार्दवं नाम मृदुता तच्चौद्ध त्यनिषेधनम् । मानस्य पुनरोद्धत्यं स्वरूपमनुपाधिकम् ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy