________________
हतीयः प्रकाशः ।
७५८
क्षुदातः शक्तिभाक् साधुरेषणां नातिलङ्घयेत्। अदीनो विह्वलो विहान् यात्रामात्रोद्यतश्चरेत् ॥ १ ॥ पिपासितः पथिस्थोऽपि तत्त्वविद् दैन्यवर्जितः। . न शीतमुदकं वाच्छेदेषयेत् प्रासुकोदकम् ॥ २ ॥ बाध्यमानोऽपि शौतेन त्वग्-वस्त्र-त्राणवर्जितः । वासोऽकल्पं नाददीत ज्वलनं ज्वलयेद् न च ॥ ३ ॥ उष्णेन तप्तो नैवोष्णं निन्देच्छायां च न स्मरेत् । वौजनं मज्जनं गात्राभिषेकादि च वर्जयेत् ॥ ४ ॥ दष्टोऽपि दंशेर्मशकैः सर्वाहारप्रियत्ववित् । वासं हेषं निरासं न कुर्यात्, कुर्यादुपक्षणम् ॥ ५ ॥ नास्ति वासोऽशुभं चैतद् तन्नेच्छेत् साध्वसाधु वा । नाग्न्येन विप्लुतो जानल्लाभालाभविचित्रताम् ॥ ६ ॥ न कदाप्यरतिं कुर्याटु धर्मारामरतिर्यतिः । गच्छंस्तिष्ठंस्तथासौन: स्वास्थामेव समाश्रयेत् ॥ ७ ॥
निसङ्गपङ्का हि मोक्षहारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय चिन्तयेदिति नैव ताः ॥ ८ ॥ ग्रामाद्यनियतस्थायी स्थानाबन्ध विवर्जितः। चर्यामेकोऽपि कुर्वीत विविधाभिग्रहयुतः ॥ ८ ॥ श्मशानादौ निषद्यायां स्वयादिकण्टकवर्जित । इष्टानिष्टानुपसर्गान् निरीही निर्भय: सहेत् ॥ १० ॥ शुभाशुभायां शय्यायां विषहेत सुखासुखे । राग-द्वेषो न कुर्वीत प्रातस्त्याज्ये ति चिन्तयेत् ॥ ११ ॥