________________
७५८
योगशास्त्रे
शरणं तदाश्रितः, यदाहु:-'अरहंते सरणं पव्वज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पव्वज्जामि, केवलिपन्नत्तं धम्मं सरणं पव्वज्जामि त्ति ॥१५१॥ आहारपरिहारप्रतिपत्तिश्च पञ्चविधातिचारपरिहारेण कार्या ; तदेवाह-इहलोके इहलोकविषये धनपूजा-को-दिष्वाशंसा, परलोके परलोकविषये स्वर्गादावाशंसा, जीवितं प्राणधारणम्, तत्र पूजादिविशेषदर्शनात्. प्रभूतपरिवारावलोकनात्, सर्वलोकश्लाघाश्रवणाच्चैवं मन्यते जीवितमेव श्रेयः, प्रत्याख्यातचतुविधाहारस्यापि यत एवंविधा मदुद्देशेनयं विभूतिवर्तत इत्याशंमा, मरणं प्राणत्यागः, तत्र यदा न कश्चित् तं प्रतिपत्रानशनं प्रति सपर्यया आद्रियते, न च कश्चित् श्लाघते, तदा . तस्यैवंविधश्चित्तपरिणामो जायते, यदि शीघ्र म्रिये इत्याशंसा, तां त्यत्वा, निदानं च 'अस्मात् तपसो दुग्नुचराज्जन्मान्तरे चक्रवर्ती, वासुदेवः, महामण्डलेश्वरः, सुभगः, रूपवान् स्याम्' इत्यादिप्रार्थनां त्यक्ता, पुन: किंविशिष्टः ? समाधिसुधयोक्षित: समाधिः परमस्वास्था स एव सुधाऽमृतं तयोक्षित: सिक्तः ॥१५२॥ परीषहेभ्यो निर्भयो जितपरीषह इत्यर्थः, तत्र मार्गाच्यवन-निर्जराथें परिषयन्त इति परोषहाः, ते च द्वाविंशतिः, तद्यथा ; क्षुत्पिपासाशीतोष्णदंगमशकनाग्न्यारतिस्त्रीचयानिषद्याशय्याऽऽक्रोशवधयाजाऽलाभरोगटणस्पर्शमलसत्कारप्रज्ञाज्ञानदर्शनलक्षणाः, तेषां जयश्चैवम् ;
___(१) अहंतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधुन् शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्य इति। .