SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ७५२ . योगशास्त्रे : जिनागमेऽभिहितं यद् वृत्तं प्रतिमादिलक्षणं तत्र तिष्ठतीत्युक्तवृत्तस्थः, कथम् ? यथावत् सम्यविधिना, गृहस्थोऽपि यतित्वमप्राप्नुवन्नपि विशुध्यति क्षीणपापो भवति। ___ अथ पुन: काः प्रतिमाः, यासु स्थितो गृहस्थोऽपि विशुध्यति ? उच्यते-शङ्कादिदोषरहितं प्रशमादिलिङ्ग स्थैर्यादिभूषणं मोक्षमार्गप्रासादपीठभूतं सम्यग्दर्शनं भय लोभ-लज्जादिभिरप्यनतिचरन् मासमात्र सम्यक्त्वमनुपालयति, इत्येषा प्रथमा प्रतिमा।१। हौ मामी यावदखण्डितान्यविराधितानि च पूर्वप्रतिमानुष्ठानसहितानि हादशापि व्रतानि पालयतीति द्वितीया ।। नीन् मासानुभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालयतीति टतीया ।। चतुरो मासांश्चतुष्यव्यां पूर्वप्रतिमानुष्ठानसहितोऽखण्डितं पौषधं पालयतीति चतुर्थी ।४। - पञ्च मासांश्चतुष्पां रहे तदुहार चतुष्पथे वा परीषहोपसर्गादिनिष्कम्पकायोत्सर्गः पूर्वोक्तप्रतिमानुष्ठानं पालयन् सकलां रात्रिमास्त इति पञ्चमी ।५। एवं वक्ष्यमाणास्वपि प्रतिमासु पूर्वपूर्वप्रतिमानुष्ठाननिष्ठिता प्रवसेयाः, नवरं षण्मासान् ब्रह्मचारी भवतीति षष्ठी ।। सप्त मासान् सचित्ताहारान् परिहरतीति सप्तमी ।। अष्टौ मासान् स्वयमारम्भं न करोतीत्यष्टमी ।। नव मासान् प्रेथैरप्यारम्भं न कारयतीति नवमी ।। दश मासानात्मार्थनिष्यनमाहारं न भुङ्क्त इति दशमी।१०।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy