________________
हितीयः प्रकाशः।
४५५
यानर्थान् बहुभिर्यत्नैरिच्छेत्साधयितुं नरः। अयत्नसिद्धा एवैते कृते ह्याशानिमीलने ॥ २८ ॥. पुण्योदयोऽस्ति चेत् पुंसां व्यर्थेवाशापिशाचिका । अथ पुण्योदयो नास्ति व्यर्थैवाशापिशाचिका ॥ ३० ॥ अधोती पण्डितः प्राज्ञः पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां नैराश्यमुररीकतम् ॥ ३१ ॥ सुखं सन्तोषपीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः ॥ ३२ ॥ सन्तोषवर्मणि व्यर्था आशानाराचपङ्क्तयः । ताः कथं प्रतिरोडव्या इति मा स्माकुलो भव ॥ ३३ ॥ वाक्येन केन तहच्मि यहाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च प्राप्तं च परमं पदम् ॥ ३४ ॥ तत्सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्व 'द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ॥ ३५ ॥ मिथ्यादृग्भ्यो विशिष्यन्ते सम्यग्दर्शनिनो जनाः । तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः ॥ ३६ ॥ यामन्यतौर्थिका यान्ति गतिं तीव्रतपोजुषः । उपासका: सोमिलवत्तां विराइव्रता अपि ॥ ३७ ॥ मासे मासे हि ये बालाः कुशाग्रेणव भुञ्जते । सन्तुष्टोपासकानां ते कलां नाहन्ति षोडशीम् ॥ ३८ ॥
(१) ख च -भिः क्लेशैः । (२) ड भज खं भाव- च भाव-।