________________
४१३
हितीयः प्रकाशः। महामोहध्वान्तोश्चयबहुलपक्षान्तरजनीम्
विपत्खानि नारौं परिहरत हे श्राइसुधियः ! ॥४०॥१०५॥ संप्रति मूर्छाफलमुपदर्शयंस्तनियन्त्रणारूपं पञ्चममणुव्रतमाहअसन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्परिग्रहनियन्त्रणम् ॥ १०६ ॥
दुःखकारणमित्यसन्तोषादिभिस्त्रिभिः प्रत्येकमभिसंबध्यते । असन्तोषादीनि दुःखकारणानि मूर्छाया गईस्य फलत्वेन विज्ञाय मूहेितोः परिग्रहस्य नियन्त्रणं नैयत्यमुपासकः कुर्यादिति योगः । तत्रासन्तोषस्तृप्त्यभावः, स दुःखकारणम् । मूर्छावान् हि बहुभिरपि धनैर्न संतुष्यति, उत्तरोत्तराशाकदर्थितो दुःखमेवानुभवति । परसंपदुल्कर्षश्च होनसंपदमसन्तुष्टं दुःखाकरोति । यदाह
असन्तोषवतां पुंसामपमानः पदे पदे। सन्तोषेश्वर्यमुखिनां दूर दुर्जनभूमयः ॥ १ ॥ अविश्वासः खल्वपि दुःखकारणम्, अविश्वस्तो ह्यशङ्गनीयेभ्योऽपि शकमान: स्वधनस्य रक्षां कुर्वत्र क्वचिदिश्वसिति । यदाह'उक्षण खणइ निहणइ रत्तिं न सुपर दिप्रावि अ ससंको। लिंपद ठवेद सययं लंछियपडिलंछियं कुणइ ॥ १ ॥
(१) उरखनति खनति निहन्ति रात्रिं न स्वपिति दिवाऽपि च सशङ्कः ।
लिम्मति स्थापयति सततं लाञ्छिततिलाञ्छितं करोति ॥ १ ॥