________________
दृतीयः प्रकाशः ।
५८३
पोषधव्रतो। इति तृतीयः ३। तथा मत्सर: कोपः यथा मार्गितः सन् कुप्यति, सदपि मागितं न ददाति। अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तम्, किमहं ततोऽपि हीन इति मात्सयाद्ददाति; अत्र परोन्नतिवैमनस्यं मात्सर्यम्, यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे-मत्सरः परसम्पत्त्यक्षमायां तहति क्रुधि । इति चतुर्थः ४ । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहेअपदेशस्तु कारणे व्याजे. लक्ष्येऽपि। इति पञ्चमः ५। एते पञ्चातिचारास्तुर्य शिक्षाव्रते अतिथिसंविभागनाम्नि स्मृताः । अतिचारभावना पुनरियम्-यदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः ; इत्यवसितानि सम्यक्त्वमूलानि हादशव्रतानि, तदतिचाराश्चाभिहिताः ॥ ११८ ॥ इदानीमुक्तशेषं निर्दिशन् श्रावकस्य महाशावकत्वमाहएवं व्रतस्थितो भक्त्या सप्तक्षेवयां धनं वपन् ।
दयया चातिदीनेषु महाश्रावक उच्यते ॥ १२० ॥ एवं पूर्वोक्त प्रकारेण सम्यक्त्वमूलेष्वतिचारविशुद्धेषु हादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलौनः, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्बभवनागमसाधुसाध्वीश्रावक श्राविकालक्षणा तस्यां, न्यायोपात्तं धनं वपन् निक्षिपन् ; क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपन्निति, वपनमपि क्षेत्रे उचितं नाऽक्षत्रे इति सप्तक्षेत्रवामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च