SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे आकरग्रहणं चानाकरे दन्तादेहणे विक्रये च न दोष इति ज्ञापनार्थम् ॥ १०७ ॥ अथ लाक्षावाणिज्यमाहलाक्षामनःशिलानौलोधातकीटकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ १०८ ॥ लाक्षा जतु अत्रापि लाक्षाग्रहणमुपलक्षणमन्येषां सावद्यानां मन:शिलादीनाम् । तान्येवाह-मन:शिला कुनटी, नौलौ गुलिका, धातको वृक्षविशेषः तस्याः त्वक् पुष्पं च मद्यसन्धानहेतु. र्धातकी, टङ्कण: क्षारविशेष: ; आदिशब्दात् संकूटादयो गृह्यन्ते, तेषां विक्रयः । स च पापसदनं टङ्गणमन:शिलयोर्बाह्यजीवघातकखेन, नील्या जन्तुधाताविनाभावेन, धातक्या मद्यहेतुत्वेन तत्कल्कस्य च कृमिहेतुत्वेन पापसदनत्वं ततस्तहिक्रयस्थाऽपि पापसदनत्वम् । तदेतद् लाक्षावाणिज्यमुच्यते ॥ १०८॥ . अथ रसकेशवाणिज्ये एकेनैव श्लोकेनाहनवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः । दिपाच्चतुष्याद्विक्रयो वाणिज्यं रसकेशयोः ॥१०॥ नवनीतं दधिसारं, घसा भेदः, क्षौद्रं मधु, मद्यं सुरा, प्रभृतिग्रहणात् मज्जादिग्रहः । एषां विक्रयो रसवाणिज्यम्, हिपर्दा मनुष्यादीनां चतुष्पदां गवाखादीनां विक्रयः केशवाणिज्यम्, सजीवानां विक्रयः केशवाणिज्यमजीवानां तु जीवाङ्गानां
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy