________________
५६६
हतीय: प्रकाशः । ...... अथ स्फोटजीविकामाह- .. . . .. सरःकूपादिखननशिलाकुट्टनकर्मभिः ।
पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ॥१०६॥ सरसः कूपस्य आदिग्रहणाद वापोदीर्घिकाः खननमोड कर्म, हलादिना वा क्षेत्रादेर्भूविदारणं ; शिलाकुट्टनकर्म पाषाणघटनकर्म ; एतैः पृथिव्याः पृथिवीकायस्थ य आरम्भ उपमर्द स्तस्थ सम्भूतं सम्भवो येभ्यस्तैः पृथिव्यारम्भसम्भूतैः ; उपलक्षणं चैतद् भूमिखनने वनस्पतित्रसादिजन्तुघातानाम् । एभिर्जीवनं स्फोटजीविका ; स्फोटः पृथिव्या विदारणं तेन जीविका स्फोटजीविका ॥ १०६ ॥
अथ दन्तवाणिज्यमाहदन्तकेशनखास्थित्वग्रोम्णो ग्रहणमाकरे ।
चसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ॥१०॥ दन्ता हस्तिनां उपलक्षणत्वादन्येऽपि त्रसजीवावयवा दन्तग्रहणेन गृह्यन्ते । तदेवाह - केशाश्चमर्यादीनां, नखा घूकादीनां, अस्थौनि शङ्खादीना, त्वक् चित्रकादीनां, रोमाखि हंसादीनां, तेषां ग्रहणं मूल्यादिना स्वीकारः, रोम्ण इत्येकवचनं प्राण्यङ्गत्वात् । पाकरे तदुत्पत्तिस्थाने, त्रसाङ्गस्व वसजीवावयवस्य, वणिज्यार्थ वाणिज्यनिमित्तं ; प्राकरे हि दन्तादिग्रहणाथ पुलिन्दानां यदा द्रव्यं ददाति तदा तप्रतिक्रया) हस्त्यादिवधं ते. कुर्वन्ति,
७२