________________
हतीयः प्रकाशः। क्रमेण पञ्चदशाप्यतिचारान् व्याचष्टे, तत्राङ्गारजीविकामाह
अङ्गाराष्ट्रकरणं कुम्भायःस्वर्णकारिता। ठठारत्वेष्टकापाकाविति ह्यङ्गारजीविका ॥ १०२ ॥
अङ्गारकरणं काष्ठदाहेनाऽङ्गारनिष्पादनं तद्दिक्रयश्च, अङ्गारकरण हि षणां जीवनिकायानां विराधनासम्भवः । एवं च ये येऽग्निविराधनारूपा आरम्भास्ते तेऽङ्गारकर्मण्यन्तर्भवन्ति; प्रपञ्चायं तु भेदउक्तः । भ्राष्ट्रस्य चणकादिभजनस्थानस्य करणं भ्राष्ट्रकरणं, भ्राष्ट्रजोविकेत्यर्थः । तथा कुम्भकारिता कुम्भकरणपाचनविक्रयनिमित्ता जीविका। तथा अयो लोहं तस्य करणघटनादिना जीविका। वर्णकारिता सुवर्णरूध्ययोर्गालनघटनादिना जीविका । कुम्भायःस्वर्णानि करोतीत्येवं शीलस्तस्य भावस्तत्ता। तथा ठठारत्वं शुल्वनागबङ्गकांसपित्तलादीनां करणघटनादिना जीविका। इष्ट कापाकः इष्टकाकवेल्लुकादीनां पाकस्तेन जीविका । इत्येवंप्रकारा अङ्गारजीविका ॥ १०२ ॥
अथ वनजीविकामाहछिन्नाच्छिन्नवनपत्रप्रसूनफलविक्रयः ।
कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥१०३॥ छिन्नस्य विधाकृतस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां प्रसूनानां फलानां च छिनाच्छिन्नानां विक्रयो वनजीविकेत्युत्तरेण सम्बन्धः। कणानां च घरट्टादिना दलनाद वैधी