________________
५६६
योगशास्त्रे
अमी उक्तस्वरूपा: पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च व्याख्यानान्तरंभोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोयते, कारण कार्योपचारात् । ततश कर्मत: कर्माथित्य, खरं कठोरं प्राणिबाधकं यत्कर्म कोट्टपालनगुप्तिपालनवौतपालनादिरूपं तत्त्याज्यं, तस्मिन् खरकर्मत्यागलक्षण भोगोपभोगवते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोयन्ते, कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥८॥
तानेव नामत: श्लोकहयेन दर्शयति
अङ्गारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥ १० ॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । ।
दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०१ ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ स्फोटजीविका ५ । उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकम भिसम्बध्यते। दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ८ विषवाणिज्यं १० ; यन्त्रपौडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सर:शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०० ॥ १०१ ॥