________________
तीयः प्रकाशः ।
५१५
पन्यत्र मन्धकाषाय्याः प्रत्याख्यदङ्गापुंसनम् । आर्द्राया मधुकयष्टेरितरहन्तधावनम् ॥ २१॥ अन्यत: क्षीरामलकाप्रत्याचख्यो फलान्यपि । सहस्रपतपाकाभ्यां तैलाभ्यां म्रक्षणान्तरम् ॥ २२ ॥ गन्धाढ्यादन्यत: प्रत्याचख्यावुहर्त्तनान्यपि ।। मष्टाभ्य औष्ट्रिकेभ्योऽम्भःकुम्भेभ्योऽधिकमज्जनम् ॥ २३ ॥ वस्त्रं प्रत्याख्यदन्यच्च कार्पासाहस्त्रयुग्मकात् । विलेपनानि चान्यत्र कुश्मागुरुचन्दनात् ॥ २४ ॥ युष्यं प्रत्याख्यदन्यच्च पद्माज्जाविस्रजोऽपि च । कर्णिकानाममुट्राभ्यामन्यानि भूषणानि च ॥ २५ ॥ मुमोच धूपमगरुतुरुष्काभ्यामथापरम् । अन्याश्च काष्ठपेयायाः पया अपि समन्ततः ॥ २६ ॥ खण्डखाद्या घतपूराचेतरत् खाद्यमत्यजत् । प्रोदनान्यपि नि:शेषाण्यन्यत: कलमौदनात् ॥ २७ ॥ कलायमुहमारभ्य इतरं मूपमत्यजत् । शरत्कालभवात्सर्व गोष्टतादपरं तम् ॥ २८ ॥ शाकं पल्यङ्गमण्डकीशाकाभ्यामन्यमत्यजत् । विना स्नेहाम्लदाल्यम्ले तोमनान्यपि सर्वतः ॥ २८ ॥ अन्तरिक्षोदकादन्यदुदकं पर्यवजयत् । मुखवासं च ताम्बूलात्पञ्चसौगन्धिकाटते ॥ ३० ॥ अपध्यानं हिंस्रदानं प्रमादाचरितं तथा । पापकर्मोपदेशं नानर्थदण्डानवर्जयत् ॥ ३१ ॥