SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे 'सो ससमयपन्नवत्र सिद्धंतविराहओ अन्नो ॥ १ ॥ इत्याम गोरससंपृक्तद्दिदलादौ न हेतुगम्यो जीवसद्भाव:, किन्त्वा - गमगम्य एव । तथाहि । आमगोरससंपृक्के द्विदले आदिशब्दा स्पुष्पितौदने, अहर्द्दितयातीते दनि, कुथितान्ने च, ये जन्तवस्ते केवलज्ञानिभिर्दृष्टा इति जन्तुमिश्रामगोरस मिश्रद्विदलादिभोजनं वर्जयेत् । तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः । न च केवलिनां निर्दोषत्वेनाप्तानां वचनानि विपरियन्ति ॥ ७१ ॥ ४८४ अपि च । न मद्यादीनि कुथितान्नपर्यवसानान्येवाभोज्यानि, किन्त्वन्यान्यपि जीव संशक्तिबहुलान्यागमादुपलभ्य वजेनीयानी त्याह जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥ ७२॥ जन्तुभिर्मिश्रं फलं मधूक बिल्वादेः, पुष्पमरणिशिग्रुमधूकादेः, पत्रं प्रावृषि तण्डुलीयकादे:, अन्यदपि मूलादि त्यजेत् । सन्धानमाम्रफलादोनां यदि संसक्तं भवेत्, तदा जिनधर्मपरायणः कृपालुत्वात्त्यजेदिति संबन्धः । इदं च भोजनतो भोगोपभोगयोव्रतमुक्तम् ; भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोग उच्यते। उपचारात् । तत्परिमाणमपि भोगोपभोगव्रतम् । यथा श्रावकस्य खरकर्मपरिहारेण कर्मान्तरेण जीविका। एतच (१) स स्वसमय प्रज्ञापकः सिद्वान्तविराध कोऽन्यः ॥ १ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy