________________
चिकित्साकलिका।
७९ पिप्पल्याद्यमश्चिकित्सते प्रसिद्धमिति कृत्वा तीसटाचार्येणोक्तम्अस्य च फलम् गुदजान्यज॑सि । गुल्फगुदगुह्यकटीजठरान्तरेषु रुजो ये विकारास्तान् विनिहन्ति । गुल्मांदीश्च । अनुवासनतः स्नेहबस्त्यु. पयोगतः । स चानुवासनो भुक्ते सुखोष्णे एकदिवसान्तरितो विधेयः स्नेहवस्तिः । तस्मिंश्च दीयमाने शुण्ठीधान्याम्बु प्रभाते पेयमग्निसंधुक्षणार्थ रुच्यर्थञ्च । तथा च सुश्रुतः–'प्रातरुष्णोदकं देयं धान्यनागरसाधितम् । तेनास्य दीप्यते वह्निर्भक्ताकांक्षा च जायते ॥ तस्य च हीनातिसम्यग्दत्तस्य लक्षणम् । विष्टब्धानिलविण्मूत्रः स्नेहो हीनेऽनुवासने । दाहक्लमप्रवाहार्तिकरश्चात्यनुवासने॥सानिलः सपुरीषश्च स्नेहः प्रत्यति यस्य तु। ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ॥ तस्य च फलं चरकेणोक्तम्- “मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवायः। काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन ॥ सुश्रतेनाप्युक्तम्-“बस्तिवाते च पित्ते च कफे रक्ते च शस्यते। संसर्गे सन्निपाते च बस्तिरेव हितः सदा" ॥ ८३-८४ ॥
तिलतैल ८८ पल। दूध १७६ पल। जल ३५२ पल। पिप्पली, मुलहठी, कुष्ठ, विल्व, वच, सोये, पोहकरमूल, चित्रक, कचूर, मैनफल, देवदारु; प्रत्येक १ पल । यथाविधि तैल सिद्ध कर अनुवासन करना चाहिये । इस तेल के अनुवासन से अर्श, गुल्म, अतीसार, संग्रहणी और गुल्फ, गुदा, गुह्यदेश, कमर तथा कुक्षि आदि में उत्पन्न वातिक वेदनायें नष्ट होती हैं ॥ ८३-८४ ॥
एवं संशुद्धशरीरस्य कृतसंसर्जनस्य च स्विन्नशिरसः शिरोगतदोषनिहरणार्थ नस्यमाह
शिग्रबीजसुरसार्जकबीजैविश्वजीरककणामरिचैश्च । नस्यमूवरुजि योज्यममीभिः
कारवीरुचकतुम्बुरुभिश्च ॥ ८५ ॥ ऊर्ध्वरुजि शिरोविकारे वातश्लेष्मजे नस्य योज्यं योजनीयम् । अमीभिद्रव्यैः शिग्रवीजादिभिः एकशो द्विशतिशः समस्तैर्वा कल्कपिष्टैः शिरोविरेचनम्। कदाचित् समस्तैस्तैलं पक्त्वा स्नैहिकं नस्यं