________________
चिकित्साकलिका |
66
निरूहयेत् ॥ इति ॥ सुश्रुताचार्येणापि वातादिविभागेन माक्षिकादीनां प्रमाणमुक्तम् । 'त्रिषद्वयेकाष्टचत्वारः त्र्यन्ध्यक्षीलेशवह्नयः । षट्त्रिद्वये काष्टचत्वारः प्रतिपक्षा व्यवस्थिताः ॥ वाते पित्ते कफे क्षौद्रं स्नेहः कल्को गुडादयः । क्वाथो वापो पृथक्वस्तिश्चतुर्विंशतिकः पलैः ॥ वाते गुडः सिता पित्त कफे सिद्धार्थकादयः । कल्कावापर सक्षीरमूत्रप्रायं द्रवं क्षिपेत् ॥ सुश्रुताचार्येणापि सामान्येनैव सैन्धवादीनां प्रमाणमुक्तम् । 'दत्त्वादौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम् । विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् || एकीभूते ततः स्नेहे कल्कस्य प्रसृतं क्षिपेत् । संमूच्छिते कषायं तु चतुःप्रसृतसंमितम् । वितरेश्च तथावापमन्ते द्विप्रसृतोन्मितम् ॥ एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् । ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम् ॥ अपहासे भिषक् कुर्यात्तद्वत्प्रसृतहापनम् । यथावयो निरूहाणां कल्पनेयमुदाहृता ॥ सैन्धवादिद्रवान्तानां सिद्धिकामैर्भिषग्वरैः " ॥ इति ॥ तस्य निरूहस्य सुश्रुतादिभिः शल्यतन्त्रकर्तृभिः उत्क्लेशदोषहर संशमन बस्तिपुटपाकदानमित्यनेन क्रमेण कल्पना आश्रीयते । तथा च सुश्रुतः - 'दद्यादुत्क्लेशनं पूर्व मध्ये दोषहरं पुनः । पश्चात्संशमनीयं च दद्याद्वस्ति विचक्षणः । एरण्डबीजमधुकं पिप्पली सैन्धवं वचा । हपुषाफलकल्कश्च वस्तिरुत्क्लेशनः परः ॥ शताह्वा मधुकं बीजं कौटजं बीजमेव च । सकाञ्जिकः सगोमूत्रो स्तिर्दोषहरः स्मृतः ॥ प्रियङ्गुमधुकं मुस्ता तथैव च रसाञ्जनम् । सक्षीरः शस्यते बस्तिर्दोषाणां शमनः स्मृतः” इति ॥ तस्मिन् वृत्ते हीनातिसम्यङ् निरूढलक्षणं सुश्रुतेनोक्तम्- 'अल्पाल्यवेगो विद्वातहीनो हीननिरूहणः । मूर्च्छाशूल कफप्रायो महावेगो निरूहणः ॥ यस्य क्रमेण गच्छन्ति विपित्तकफवायवः । लाघवं चोपजायेत सुनिरूढं तमादिशेत् ॥ सुनिरूढं ततो जन्तुं स्नातं भुक्तं रसौदनम् । यथोक्तेन विधानेन योजयेत् स्नेहवस्तिभिरिति ॥ तस्य सम्यकदत्तस्य फलं चरकोक्तमुच्यते"बस्तिर्वयः स्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृञ्च । सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च ॥ विश्लेष्म पित्तानिलमूत्रकर्षी दावहः शुक्रबलप्रदश्च । वृष्यः स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूह इति ॥ ८२ ॥
७७