________________
४८८
चिकित्साकलिका। इति लक्षणं पवनविकारे प्रोक्तं एतत् पूर्वोक्तम् । किं तत् ? रुक्पीडा भवति तोदनभेदनछेदनावमन्यनायमनादिका वातजा । क ? दृशि दृष्टौ । शिरसि मस्तके। शंखश्रोत्रनेत्रान्तरेषु च । शंखौ भ्रुवोरन्तोपरि कर्णललाटयोर्मध्ये । श्रोत्रे कर्णे । नेत्रे नयने। तेषामन्तरालेषु रुग्भवति । हनुमन्यास्कन्धमूर्द्धार्द्धसन्धौ च । हनू द्वौ मुखसन्धी । मन्ये कण्ठपाययोर्धमन्यौ । स्कन्धं कण्ठस्योपरि स्थितं । मूर्द्धार्द्ध मस्तकार्द्ध तेषां सन्धौ रुग् भवति। निशि रात्रौ अतिशयेन । दिने अल्पा स्तोका रुक् स्यात् भवेत् । अकस्माच्च प्रशान्ता रुग्भवति । भुजजंघास्तब्धसंकोचता च भवति । भुजा बाहू। जंघे पादोपरिनलके । तयोः स्तब्धता संकोचता च भवति । कट्यादिषु च गुरु शूलं प्रसरति । कटिश्च विटपे च यकृच्च कटिविटिपयकृतः तेषु गुरु शूलं भवति। कटिः पृष्टस्याधः, विटपे वंक्षणवृषणयोरन्तरे संधी। यकृतक्लोनी दक्षिणपाधै। यकृति क्लोनि च शूलं भवति । प्लीह्नि पृष्ठे च । जठरवृषणवक्षःकुक्षिकक्षाक्षकेषु । जठरमुढरम् । वृषणौ अण्डौ। वक्षौ वक्षः स्थलम् , कुक्षी वामदक्षिणयो पार्श्वयोः । कक्षे बाहूमूलयोनिम्ने । अक्षके वक्षः समीपे। एषु च गुरु शूलं प्रसरति । नाभिवस्तिस्तनेषु प्रसरति गुरु शूलम् । त्रिकगुदवलिगुह्योपांतपक्षद्वयेषु । त्रिकं त्रिकसंधिाकट्याम् । गुदे वलयो गुदवलयः । गुह्यस्योपान्तंसमीपम् । पक्षद्वयं शरीरस्य । वामदाक्षणपक्षद्वयेषु च प्रसरति गुरुशूलमिति । वदने मुखे विरसता रसाज्ञानं स्यात् भवेत् । वर्चसः पुरुषस्य कर्कशत्वं काठिन्यम् । वपुषि शरीरे कार्य कृशता । रात्रिनिद्रानिवृत्तिः रात्रौ निद्राया अभावः । त्वचि च परुषता कर्कशता स्यात् भवेत्। स्याञ्च वैषम्यं विषमता चान्तरेग्नरिति । पूर्वोक्तपवनविकारे वातजे रोगे चिह्न प्रोक्तं कथितमेतदिति ॥३४-३६॥
वातप्रकोप से पश्चाल्लिखित लक्षण प्रकट होते हैं। आंख, शिर, शङ्खप्रदेश, कान, और आंख के मध्यस्थल, ~ ( भौहें ), हृदय, हनुसन्धि, मन्या, स्कंध (कन्धे ) तथा आधे मस्तक में अत्यन्त तोद, भद आदि वातिक वेदनायें होती है। यह वेदना रात्रि में अत्यधिक और दिन में कुछ कम होती है। यह अचानक शान्त भी होजाया करती है । कटि ( कमर ), विटप, यकृत् , क्लोम, प्लीहा (तिल्ली), पीठ, उदर, वृषण ( अण्ड ), वक्ष ( छाती), कुक्षि, कक्षा