________________
भूतविद्या ।
२४१
है । मात्रा — आधा तोला । वृद्धवाग्भट के अनुसार गृष्टि ( एकवार सूई हुई गौ ) का
दूध लेना चाहिये ॥ २६८ ॥
इदानीं फलघृतमाहकाकोलीद्वयजीवकैः सवृषभैर्मेदाश्वगन्धासिता
तिक्तारुक्सुरदारुहिङ्गुतगरैरेलावचाचन्दनैः । जीवन्तीत्रिफलाजमोदरजनी दार्वीविदारीवरीमञ्जिष्ठा घनपद्मकैः समधुकैर्मृद्वीकया संयुतैः ॥ ३६९ ॥ एभिः क्षीरचतुर्गुणं भृतमिदं सर्पिः सदा शस्यते बालस्य ग्रहपीडितस्य पुरुषस्याल्पस्रवद्रेतसः । एतन्मारुतरोगिणामपि हितं पुत्रार्थिभिः स्त्रीजनैरुधः कृतशुद्धिभिः फलघृतं संसेव्यते सर्वदा ॥ ३७० ॥
एभिः काकोल्यादिभिः कार्षिकैः घृतं प्रस्थप्रमाणं क्षीरचतुर्गुणं शृतं पक्वमिदं ग्रहपीडितस्य बालस्य, वा अल्पस्स्रवद्रेतसः अल्पं स्रवद्वेतो यस्य स तथा तस्य पुरुषस्य सदा शस्यते । एतच्च फलघृतं मारुतरोगिणां वातरोगिणां हितम् । स्त्रीजनैः पुत्रार्थिभिः पुत्रकामैः सर्वदा सेव्यते पानादिभिः । ऊर्ध्वाधःकृत शुद्धिभिः । ऊर्ध्वं वमनेन अधो विरेचनेन कृता शुद्धिर्यैः स्त्रीजनैः । काकोलीद्वयं काकोलीक्षीरकाकोल्यौ । जीवकवृषभकमेदाः स्वनाम्ना प्रसिद्धाः । अश्वगन्धा वाजिगन्धा । सिता शर्करा । तिक्ता कटुका । रुक् कुष्ठम् । सुरदारु देवदारु । हिङ्गु रामठम् । तगरं कुटिलम् । एला त्रुटि: । वचा उग्रगन्धा । चन्दनं रक्तचन्दनम् । जीवन्ती सुवर्णजीवन्ती । त्रिफला पूर्वोक्ता । अजमोदा स्वनाम्ना प्रसिद्धा । रजनी हरिद्रा । दार्वी दारुहरिद्रा । विदारी क्षीरविदारिका । वरी शतावरी । मञ्जिष्ठा रक्ता । घनं मुस्तम् । पद्मकं स्वनाम्ना प्रसिद्धम् । मधुकं यष्टीमधु । मृद्वीका द्राक्षा इति ॥ ३६९–३७० ॥
फलघृतः———गव्यघृत २ प्रस्थ । दूध ८ प्रस्थ । कल्कार्थ - कालोली, क्षीरकाकोली, जीवक, ऋषभक, मेदा, असगन्ध, खांड, कुटकी, कुठ, देवदारू, हींग, तगर, छोटी इलायची, वच, लाल चन्दन, जीवन्ती, त्रिफला, अजमोदा,