________________
शल्यतन्त्रम्।
२३७
तेनैव साध्यविधिना न पुनर्भवन्ति
दग्धा रुजो नृषु नगा इव वज्रदग्धाः ॥ ३६४ ॥ पलाशकदलीखरमञ्जरीणाम् ( खरमञ्जरी अपामार्गः ) क्षारस्य द्रोणमुदकार्मणैः सलिलद्रोणैः षड्भिः अहिमरुष्णैरालोड्य तावत्पचेत् यावद्भस्मजलं पिच्छिलं विजलं अच्छं स्वच्छं अरुणं लोहितं भवति। ततो यत्नात्परिगृह्य क्षौमेण क्षौमिकया कम्बलिकया वा पटाशाटकास्तैर्वा स्रतमेकविंशतिवारान् । अथवा गोमूत्रावलोडितक्षारमम्बरेण वस्त्रेण सुतमेकविंशतिवारान् एवं क्रियते । शंखशकलस्य शंखनाभेः खण्डस्य तप्तस्याग्निवर्णस्य पलान्यष्टौ क्षिप्त्वा अत्र भस्मपयसि अस्मिन्क्षारोदके प्रस्थप्रमाणे । कथमेतदवसीयते-इति चेत् तन्त्रान्तरप्रत्ययात् । तथा च विश्वामित्र:-"क्षारोदकचतुर्भागं कल्कमेषां प्रदापयेत् । द्रव्याणां श्लक्ष्णपिष्टानां मुष्टिमात्र निधापयेत् । एषां इति शङ्खादीनां द्रव्याणां परामर्शः। दन्त्यादीनामिति शुक्तिमानमिति । दन्त्यादिभिर्द्रम्मार्द्धतौल्यकमितैः प्रतिपिष्टकल्कैरेभिः सार्द्ध सह । द्रम्माद्धमात्रं शुक्तिरर्द्धपलं वेति भवति । दन्ती निकुम्भः। द्रवन्ती तद्भेदःचीरितपत्रा। अतिविषा प्रसिद्धा। बिडं बिडलवणम् । तालमूली मूसली । वच्या वचा । करञ्जदलं करञ्जदलानि । रामळं हिङ्ग । काञ्चनी स्वर्णक्षीरी। स्वर्जिका स्वर्जिकाक्षारः । ज्वलनश्चित्रकः । लाङ्गलिकाबा लाङ्गलिकेति लोके विख्याता । भिषजा वैद्येन तथा संसाध्यते यथा विपक्कः क्षारो नैव तनुर्द्रवो नातिसान्द्रो भवति । अनेन क्षारेण पूर्वोक्तेन प्रकारेण साध्यविधिर्यस्यासौ साध्यविधिस्तेन दग्धा रुजो वल्मीकादयो नृषु प्राणिषु पुनर्न भवन्ति। क इव? नगा इव। यथा नगा वृक्षाः वज्रदग्धा न पुनः प्ररोहन्ति । तद्वदेता अपि रुजो न भवन्तीति ॥ ३६१-३६४ ॥ इति तीसटसुत चन्द्रटविरचितायां चिकित्साकलिकाटीकायां
तृतीयं शल्यतन्त्रं समाप्तम् । पलाश (ढाक), कदलीकाण्ड (केला), अपामार्ग, इनमें से किसी एक की १ द्रोण भस्म में १२ द्रोण जल डालकर पकावें । पकाते २ जब भस्मजल पिच्छिल, स्वच्छ तथा रक्तवर्ण का होजाय तब क्षौम, कम्बल, आदि से छान लें और वस्त्र में अवशिष्ट द्रव्य को फैंक दें। अथवा जल की जगह गोमूत्र में भी अवलोडित कर