________________
२३०
चिकित्साकलिका। अधुना दशाङ्गतलमौहसहाचरबलात्रयत्रिकटवाजिगन्धावरीसरण्युरुबुकुण्डलीर्दशपला जलस्यामणे । विपाच्य चरणस्थिते पयसि भेषजानां जले दधीक्षुरसमस्तुभिर्जतुरसेन शुक्तेन च ॥३४७ ॥ नलदफलिनीरुक्मञ्जिष्ठातुरुष्कसुरद्रमैरगुरुतगरत्वपत्रैलालवङ्गहरेणुभिः । सनखसरलोशीरोदीच्यैः सचन्दनचोरकैः सकरिकुसुमैः पक्कं तैलं दशाङ्गमिति स्मृतम् ॥३४८॥ दशाङ्गोक्तक्वाथैदशभिरपि तैलानि विधिवत् सकल्कैः सक्षीरैः पृथगथ दशैतानि विपचेत् । . मरुद्वयाधिनानि स्थविरनृपतिस्त्रीशिशुकशक्षतक्षीणोरस्कनृभिरपि च सेव्यानि सुखिभिः ॥ ३४९ ।।
सहाचरः कटशल्लियाकः । बलात्रयं बला अतिबला नागबला च। त्रिकटको गोक्षुरकः । वाजिगन्धा अश्वगन्धा । वरी शतावरी । सरणीप्रसारणी। उरुबुक एरण्डः । कुण्डली गुडूची । सहाचरादीनि पृथक् दशपलिकानि जलस्योदकस्यामणे द्रोणे विपाच्यन्ते। ततो भेषजानां सहचरादीनां जले क्वाथे चरणस्थिते पादस्थिते पयसि च क्षीरे तैलसमे दधीक्षुरसमस्तुभिश्च पृथक्तैलसमैः । जतु लाक्षा तस्याश्च रसेन क्वाथेन, शुक्तेन चुक्रेण तैलसमेन नलदादिभिश्च कल्कैः पक्वं तैलं दशाङ्गमिति स्मृतं कथितं पूर्वाचार्यैः । नलदं मांसी । फलिनी प्रियङ्गः । रुक् कुष्ठम् । मञ्जिष्ठा रक्ता । तुरुष्कं सिह्नकम् । सुरद्रुमो देवदारु । उदीच्यं बालकम् । अम्भोदो मुस्ता । चन्दनं रक्तचन्दनम् । चोरकं ग्रन्थिपर्णानुकारि । करिकुसुमं नागकेसरम् । शेषाणि प्रसिद्धानि । एभिरेव दशाङ्गोक्तक्वाथैर्दशभिरपि पृथगेकैकेन नलदादिभिश्च कल्कैः क्षीरेण विधिवत् पाकविधिना विपाचयेत् । तानि च दश तैलानि भवन्ति । मरुद्वातस्तेन व्याधयोऽपतानकादयः, तान् घ्नन्तीति मरुद्व्याधिनानि । स्थवि