________________
शिरोरोगचिकित्सा |
क्वाथेन तेन पयसा मधुरौषधैश्च
सिद्धं शिरोरुजि हितं शिखिसर्पिरेतत् ।। ३२१ ।। वाट्यालकं सदशमूलमधूकरास्नं समयूरमांसं च जलस्य द्रोणे विपचेत् । वाट्यालकं बला । दशमूलं युक्पञ्चमूलम् । मधूकं यष्टीमधु । रास्ना रसना । क्वाथकल्पना च मयूरं पादान्त्र पक्षशकृत्पित्तमुखवर्जितं, दशमूलबलारास्नायष्टीमधूनि प्रत्येकं त्रिपलिकानि गृहीत्वा सलिलद्रोणे विपाच्य चतुर्भागावशेषं क्वाथं कृत्वा तेन क्वाथेन पयसा च दुग्धेन मधुरौषधैश्च काकोल्यादिभिः कार्षिकैः कल्कैघृतप्रस्थं सिद्धं शिरो - रुजि शिरोरोगे हितम् । एतत् शिखिसर्पिर्मायूरघृतमिति ॥ ३२१ ॥
२१५
मायूरघृत-गव्यघृत-२ प्रस्थ । क्वाथार्थ - पंख, चोंच, आन्त्र, पित्त आदि से रहित एक मोर का मांस, तथा बला, दशमूल, मुलहठी, रास्ना; प्रत्येक ३ पल; जल २ द्रोण, अवशिष्ट क्वाथ आधा द्रोण ( ८ प्रस्थ ) | दूध २ प्रस्थ । कल्कार्थकाकोल्या दिगण की प्रत्येक औषध २ तोले । यथाविधि पाक करें । यह घृत शिरोरोग में अत्यन्त हितकर है ॥ ३२१ ॥
इदानीं षड्विन्दुतैलमाह—
मिशिमधुकविडङ्गैरण्डजीवन्तिरास्नातगरलवणशुण्ठीत्वग्भिरेभिः सदुग्धैः । दशभिरिति समांशैभृङ्गनिर्यास पक्कं नयनदशनमूर्द्धव्याधिविध्वंसि तैलम् ।। ३२२ ।।
मिश्यादीनामितरेतरद्वन्द्वः । एभिर्दशभिरर्द्ध पलि कैस्तैलप्रस्थं, दुग्धं भृङ्गस्वरसः प्रत्येकं चतुर्गुणं, पक्कं नयनदशनमूर्धन्याधिविध्वंसि । मिशि: शतपुष्पा । लवणं प्रधानकल्पनया सैन्धवम् । शेषाणि प्रसिद्धानि ॥ ३२२ ॥
काकोल्यादीनि कार्षिकाणि ग्राह्याणि । चक्रदत्तेऽप्युक्तं - "मधुरैः कार्षिकः कल्कैः” । अत्र केचित् वाट्यालकादीनां द्रव्याणां समं मयूरमांसमिच्छन्ति कथयन्ति च दशमूलस्य प्रत्येकं पलत्रयम्, एवं बलादीनां त्रयाणामपि तेन मिलित्वा ऊनचत्वारिंशत्पलानि भवन्ति तथा मयूरमांसमपि पक्षपादादिरहितं ऊनचत्वारिंशत्पलं ग्राह्यम् । अतएव चक्रोsपि - "दशमूलादिना तुल्यो मयूर इह गृह्यते" इत्यनेन स्वमतमुपन्यस्तवान् । परं व्यवहारस्तु आकृतिमानेनैव गृहीतेन मयूरेण भवतीति शिवदासः ॥
१ - तत्त्वचन्द्रिकाख्यायां चक्रदत्तव्याख्यायां अजाक्षीरं तैलसममिति दृभ्यते ।