________________
नेत्ररोगचिकित्सा।
२०७ द्राक्षारसेन परिशुद्धमिति क्रमेण
सौवीरकाञ्जनमिदं तिमिरामयन्नम् ॥ ३०९ ॥ भृङ्गो मार्कवस्तदुद्भवो यस्यासौ भृङ्गोद्भवः । स चासौ स्वरसश्च भृङ्गोद्भवस्वरसः तेन भावितं च तत् । “द्रवेण यावता द्रव्यमेकी भूयार्द्रतां ब्रजेत् । द्रवप्रमाणं निर्दिष्टं भिषग्भि वनाविधौ”। आज छागदुग्धं तस्मिन् भावितम् । गवां मूत्रे, पयसि दुग्धे च गवामिति, त्रिफलाकषाये, द्राक्षारसेन स्वरसेन क्वाथेन वा इत्यनेन क्रमेण एकैकेन च त्रीन् वारान् कदाचित् सप्त सप्त । किं तत् ? सौवीरकाञ्जनम् । इदं परिशुद्धं तिमिरामयान् हन्ति इति ॥ ३०९॥
विशोधित सौवीराञ्जन को अत्यन्त श्लक्ष्ण पीसकर भांगरे का रस, बकरी का दूध, गोमूत्र, गोदुग्ध, त्रिफलाक्वाथ तथा द्राक्षारस से क्रमशः पृथक् २ तीन वार अथवा सातवार भावना देकर पुनः श्लक्ष्ण पीस लें। इसको आंख में आंजने से तिमिररोग नष्ट होता है ॥३०९॥
अधुना दिनान्ध्यनक्तान्ध्यहरी वर्तिमाहआज यगरिकसंप्रयुक्तं किञ्जल्कमब्जादपि चोत्पलाञ्च । दिनान्ध्यनक्तान्ध्यहरी प्रदिष्टा चतुर्भिरङ्गैरिति वर्तिरेषा ॥३१०॥
दिनान्ध्यं दिवसान्धत्वं नक्तान्ध्यं राज्यन्धत्वं ते हरतीति दिनान्ध्यनतान्ध्यहरी वर्तिरेषा प्रदिष्टा कथिता इति चतुर्भिरङ्गैः । कैः ? आज छागं यकृत् हृदयदक्षिणपार्धाश्रितं मासं गैरिकसम्प्रयुक्तं संयोजितम् । अब्जात् पद्मात् किञ्जल्कं पुष्पमध्यम् । उत्पलानीलोत्पलात् किअल्कमिति ॥ ३१० ॥
बकरे का यकृत् (जिगर), उत्तम गेरू तथा श्वेतकमल एवं नीलकमल के केसर, इन चार द्रव्यों को एकत्र मिश्रित कर जल से घोटकर, वर्ति बनावें । यह वर्ति दिनान्ध्य तथा नक्तान्ध्य ( रतौंधा)को नष्ट करती है ॥ ३१०॥
इदानीं राज्यन्धस्य प्रत्यनीकां वर्तिमाहहरेणुकासैन्धवसंप्रयुक्तां स्रोतोजयुक्तामुपकुल्यया च । पिष्ट्वाजमूत्रेण कृता च वतिनक्तान्ध्यविध्वंसकरी नराणाम् ॥३११॥ ___हरेणुका रेणुका तां सैन्धवसम्प्रयुक्तां योजितां स्रोतोजं स्रोतोअनं तेन युक्तां । उपकुल्या पिप्पल्ली तया च युक्ताम् । आजः छागः