SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका | उपदिष्टाः । असाध्यं द्विविधं, याप्यमनुपक्रम्यं चेति । याप्यमपि द्विविधं सुखदुःखभेदेन । ननु कथं व्याधीनामनेकभेदकथनमुच्यते ? शिष्यमतिविकासार्थम् । आचार्यास्तु तथा शास्त्रं विद्धति यथा शिष्याः सुखेन शास्त्रं संविभ्रति । तथा च चरकः - ' भेत्ता हि भेद्यमन्यथा भिनत्ति पुरस्ताद् भिन्नं भेद प्रकृत्यन्तरेण भिन्दन् शिष्यायाविशेषमापादयत्यनेकधा । न च पूर्वभेदाय मुह्यति । इति ॥ ५ ॥ वात, पित्त तथा कफ की विषमता से पैदा होने वाले रोग शरीर तथा मन के अधिष्ठान भेद से दो प्रकार के; तथा साध्य, याप्य एवं असाध्य भेद से तीन प्रकार के होते हैं । इसी प्रकार यही रोग दृष्टिभेद से एक, दो, तीन, चार तथा बहुत प्रकार के भी हो सकते हैं। जैसे सम्पूर्ण रोग पीडाकर होने से एक प्रकार का राजस, तामस भेद से दो प्रकार के; आग्नेय, सौम्य, वायव्य भेद से तीन प्रकार के; शारीर, मानस, आगन्तु एवं स्वाभाविक भेद से चार प्रकार के; तथा दोषों के परस्पर अनुबन्ध्य तथा अनुबन्धक भेद से बहुत प्रकार के होते हैं ||१५|| प्राक् साध्याः क्वचिदित्युक्तमतस्तत्साध्यत्वप्रतिपादनायाहएकैकदोषजनिता निरुपद्रवाश्च दीप्तानलस्य च सदात्मवतश्च जन्तोः वित्तान्वितस्य च रुजः सदुपक्रमेण साध्या भवन्ति भिषजामचिरोद्भवाथ || ६ || भिषजां सदुपक्रमेण रुजः साध्या भवन्तीति क्रिया । किं विशिष्टा रुजः ? एकैकदोष अनिताः, एकैकेन दोषेण जनिता एकैकदोषजनिताः प्रादुर्भूता इत्यर्थः । निरुपद्रवाश्च निर्गता उपद्रवा ज्वरातिसारश्वासकासतृष्णाहिकाप्रभृतयो यासां ता निरुपद्रवाः । ताश्च अचिरोद्भवाः स्तोककालोद्भवाः प्रादुर्भूता रुजः । किंच दीप्तानलस्य च । दीप्तस्तीक्ष्णोSasो जाठरोऽग्निर्यस्य स दीप्तानलो जन्तुस्तस्य । सदा सर्वकालं आत्मवतश्च आत्मनिग्रहकारिणः । वित्तान्वितस्य वित्तेन द्रव्येण अन्वितस्य युक्तस्य । जन्तोः प्राणिनो रुजो विकारा यदि भवन्ति तदा सदुपक्रमेण सम्यक् प्रयोगेण साध्या भवन्ति । केषां ? भिषजां सुवैद्यानाम् । तथा च चरकाचार्य्यः - ' प्रयोगज्ञानविज्ञान सिद्धि सिद्धाः सुखप्रदाः । जीविताभिसरा ये स्युर्वैद्यत्वं तेष्ववस्थितम् ' ॥ ६ ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy